Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 182
________________ १८२ योगशास्त्रे दृष्टिहिं नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाहुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यते अभिलषति च । यदाह 'नरविबुहेसरसोक्वं' दुक्वं चिय भावो अ मन्वंतो। संवेगो न मोक्ख' मोत्तूणं किंचि पच्छेइ ॥ १ ॥ निर्वेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथातथाकदर्यमान: प्रतिक मक्षमो ममत्वरहितश्च दुःखेन निर्विमो भवति । यदाह नारयतिरियनरामरभवेसु निव्वेयो वसइ दुक्ख । अकयपरलोयमग्गो ममत्तविसर्वगरहिओ य ॥ १ ॥ अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति। अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्य. स्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । (१) नरविबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्यमानः । __ संवेगतो न मोक्षं मुक्का किञ्चित् प्रेक्षते ॥ (२) च ठ -सुक्षं । (३) नारकतिर्यङनरामरभवेष निर्वेदतः वसति दुःखम् । ____ अक्तपरलोकमार्गो ममत्वविषनेगरहित । (१) ख ग च छ -अर-।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202