Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 185
________________ द्वितीयः प्रकाशः | तत्त्र प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्त्यतिशयंवदिति प्रवचनो युगप्रधानागमः । धर्मकथा प्रशस्यास्यास्तीति धर्मकथी शिखादित्वादिन् । वादिप्रतिवादिसभ्य सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्ष निरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी | निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तदेत्यधौते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी | विद्या: प्रज्ञत्यादयः शासनदेवतास्ताः साहायके यस्य स विद्यावान् । अञ्जनपादलेपतिलकगुटिकासकलभूताकर्षणनिष्कर्ष णवै क्रियत्वप्रभृतयः सिद्धयस्ताभिः सिते स्म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहायकंकरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यञ्जलिकरणं स्वयमासनढौकनमासनाभिग्रही वन्दना पर्युपासना अनुगमनं चेत्यष्टविधकर्म विनयनादष्टविध उपचार विनयः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशिक्षकग्लानकुलगणसङ्घसाधुसमनोज्ञेषु दशस्वन्त्रपानवस्त्रपात्र प्रतिश्रय पीठक फलकसंस्तारादिभिधम्मसाधनेरुपग्रहः शुश्रूषाभैषजक्रियाकान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यर्थो विषयोक्रियते । यथानार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिक पुत्रेणाभयकुमारेण कौशलाप्रतिबोधित इति । तीर्थं नद्यादे २४ १८५

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202