Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
योगशास्त्र रुचिर्जिनोततत्त्वेष्विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि ग्रहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाट् देवगुरुधम्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यत्वे देवगुरुधर्माणां क्व तत्त्वेऽन्तर्भावः । उच्यते देवा गुरुवश्च जीवतत्त्वे धर्मः शुभाशवे संवर चान्तर्भवति। सम्यक्त्वं च त्रिधा औपशमिकं क्षायोपशमिकं क्षायिक च। तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानु. बन्धिनां च क्रोधमानमायालोभानामनुदयावस्था। उपशम: प्रयोजनं प्रवर्तकमस्य औपशमिकं तच्चानादिमिथ्यादृष्टे: करण त्रय पूर्वकमान्तौहर्तिकं चतुर्गतिगतस्यापि जन्तीभवतीत्युक्तप्रायम् । यहा उपशमशेण्यारूढस्य भवति ।
यदाह
'उवसामगसे ढिगयस्म होइ उवसामियं तु सम्मत्तं जो वा अकयतिपुंजी अखवियमिच्छो लहइ मम्मं ॥ १ ॥
क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाश: अनुदितानां चोपशमः । क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य क्षायोपशमिकं तच्च सत्कम्मवेदनाद्देद कमप्युच्यते । औपशमिकं तु सल्क मवेदनारहितमित्यौपशमिक क्षायोपशमिकयो दः ।
(१) उपशमकश्रेणि गतस्य भवति औपशमिकं तु सम्यक्तम् ।
यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक ॥
..
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202