Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 172
________________ १७२ योगशास्त्रे इति मुक्ति निमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥ ६ ॥ मुक्ति निमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥७॥ इहसकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः। नोरण्डतरः कल्पतरुलीलामुद्दहति। ततथ रागद्देषमोहदोषविवज्जितो जिन एको देवो मुक्तये नेतरे दोषदूषिताः । अत्रान्तरलोका:-- न सर्वज्ञा न नीरागाः शङ्करब्रह्मविष्णवः । प्राकतेभ्यो मनुष्येभ्यो ऽप्यसमञ्जसत्तितः ॥ १ ॥ स्त्रीसङ्गः काममाचष्टे हेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥ २ ॥ गौरी रुद्रस्य सावित्री ब्रह्मण: श्रीर्मुरहिषः । शचीन्द्रस्य रवे रत्नादेवी दक्षात्मजा विधीः ॥ ३ ॥ तारा वृहस्पतेः स्वाहा वङ्गेश्चेतोभुवो रतिः । धूमोर्णा शाहदेवस्य दारा एवं दिवौकसाम् ॥ ४ ॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202