Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 160
________________ १६० योगशास्त्रे ग्रहणं वा मानः । कुलबलेखर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य धूतपापाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः। एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह दाण्ड क्यो नाम भोजः कामाद्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २ लोभादैलश्चातुर्वर्ण्यमभ्या. हारयमाणः सौवीरश्चाजबिन्दुः ३ मानाद्रावण: परदारानप्रयच्छन् दुर्योधनी राज्यादद्मशं च ४ मदादम्भोद्भवो भूतावमानो हैहयश्चार्जुन: ५ हर्षाहातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्व हैपायन ६ मिति ॥ ३४ ॥ तथा वशीकत: स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्ताशक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः। इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह आपदां कथितः पन्या इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥ १ ॥ इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ २ ॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202