Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 13
________________ ॥ श्रीः ।। अथ सटीक: व्युत्पत्तिवादः । श्रीमते हयग्रीवाय नमः ॥ शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते । अथ ॥ व्युत्पत्तिवादादर्शः ॥ ॥ भगवते श्रीहयग्रीवाय नमः ॥ आद्यं विद्यानिदानं विधिविबुधवरैर्बन्धमानाघ्रिपमं धाम्नां धामैन्दवानां दनुजभुजरुजां जन्मनां छद्म जिझम् । प्रज्ञाऽऽलोकार्कमर्तिप्रतिकृतिममतिध्वान्तदन्त्येणशक्रं चक्रं भक्ताघचके हरिमिह तुरंगग्रीवमुमं प्रपद्ये ।। नत्वा श्रीमद्धयग्रीवं विद्याविघ्नविनाशनम् । स्मृत्वा स्मृत्वा पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् ।। करोति बालबोधार्थ मूलार्थप्रतिपादिकाम् । व्याख्यां व्युत्पत्तिवादस्य ह्याऽऽदर्शाम उपरीनः ॥ ननु न्यायमते प्रत्यक्षानुमानोपमानशब्दभेदात् प्रमाणचतुष्टयं तत्र घटप्रत्यक्षे जाते घटे यो घटत्वादीनां नीलरूपादीनां च संबन्धः स तु संयुक्तविशेषणतासंसर्गेण भासते-चक्षुस्संयुक्तघटे तस्य विशेषगत्वादिति तादृशसंबन्धनिष्ठा विषयता संयुक्तविशेषगतासंनिकर्षप्रयोज्यास्ति घटस्तु चक्षुम्संनिकृष्ट एव, वैशेषिकमते च समवायस्याप्रत्यक्षवाहिशिष्टबुद्धया समवायानुमानं भवति तदुक्तं तैः-" इहात्मनि ज्ञानमिहाकाशे शब्द इतीहबुद्धिरुत्पद्यमाना न विना संभमत्पत्तुमर्हति तेनानुमीयते-अस्ति कश्चित्संबन्धः ।" इति । अनुमितौ च पर्वतधूमौ चक्षुस्संनिकृष्टौ घह्निनिष्ठा च विषयता च्याप्तिज्ञानप्रयोज्यास्ति पर्वतीयवह्निसंयोगनिष्टा च विषयता पक्षधर्मताज्ञानप्रयोज्यारित. अर्थात्-धूमपर्वतयोः प्रत्यक्षेण ज्ञातत्वद् वह्वेश्च व्याप्तिज्ञानेन ज्ञातत्वात् पक्षधर्मताज्ञानेन 'वहिव्याप्यधूमवान् पर्वतः । इत्यनेन वह्निसंयोग एव ज्ञायतेऽत एव पक्षधर्मताज्ञानानन्तरं तत्कार्यभूतं ' वहिमान् पर्वतः । इत्याकारकं ज्ञानं जायते. अत्र वाप्तिज्ञानेन ज्ञानत्वात् पारि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 668