Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
सादर्श:
[ प्रथमाकारके -
पुरूरवद्रवसौ विश्वेदेवाः " इत्यादौ द्वित्वविशिष्टयोः पुरूरव आद्रवः प्रभृत्योविशेषणतया विवक्षितत्वात् तद्वाचकस्य पदस्य द्विवचनान्तता ।
( ६ )
26
6
वेदाः प्रमाणम्' इत्यत्र च विशेषणपदोत्तरविभक्त्या बहुत्वविरुद्ध मेकत्वं विवक्षितं तच प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति ।
मस्करणलं
मपात पायाग्यता ।
संख्याया अविवक्षितत्वान्नीलपदोत्तरमपि जसैव युक्तमिति समानवचनकत्वम्, एवम् क्षानुमानोपमानशब्दाः प्रमाणानि " " पितरो देवताः " इदमदार, विशेष्यवाच पितृपदं शब्दपदं च तदुत्तरवत्तिजं विभक्तिसात्पर्यविषयीभूतबहुत्वसंख्यातो विरुद्धसंख्याया अि वक्षितत्वाद विश्वविशेषणवाचकपदयोः समानवचनकत्वमित्यर्थः । " पुरूरव आद्रवसौ विश्वदेवाः इत्यत्र द्वित्वविशिष्टयोरेव पुरूरवसद्रवसोर्विश्वेदेवविशेषणत्वं विवक्षितमिति विशेष्यवाचकविर्वेदेवपदोत्तरवर्तिजस्विभक्तितात्पर्यविषयीभूतबहुत्वसंख्यातो विरुद्धाया द्वित्वसंख्याया वि क्षितत्वेनाऽविवक्षितत्वं नास्तीति न समानवचनकत्वं प्राप्तं किं तु द्वित्वसंख्याया विवक्षितत्वेन विशेषणवाचकपुरूरवआद्रवः पदोत्तरं द्वित्वबोधकं द्विवचनमेव प्रयुक्तमित्याह- अत एवेति । अंत एव यत्रेत्यायुक्त नियमादेव । तद्वाचकस्य = विशेषणीभूत पुरुरव आद्रवोवाचकस्य पुरूरवआद्रव:पदस्य । वस्तुतस्तु पुरूरवपदमाद्रवपदं चाकारान्तमेवेति श्रीगुरुचरणाः ।
27
66
"Aho Shrutgyanam"
प्रत्य
एवम् ' वेदाः प्रमाणम्' इत्यत्रापि विशेष्यवाचकवेद पदोत्तर वर्तिजसू विभक्तितात्पर्यविषयीभू तबहुत्वसख्याती विरुद्धाया एकत्वसंख्याया विवक्षितावेन समानवयवत्व नियामक मुक्ताऽविनवितो तत्वं नास्तीति न समानर्वचनत्वं तत्प्राप्तिश्व किं त्वेकत्वसंख्याया विवक्षितत्वेन तद्बोधक वनमेष प्रमाणपदोत्तरं प्रयुक्तं तदेव युक्तं चेत्याह- ' वेदाः प्रमाणम्' इत्यत्रेति । ननु चत्वारों वेदास्तेषु कथमेकत्वान्वयः स्यादित्याशङ्क्याह- तच्चेति तत् एकत्वम् । प्रकृतिपदेन प्रमाणपदं ग्राह्यम्, प्रमितिकरणं च प्रमाणमिति प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं तच चतु
पि वेदेष्वेकमेव विवक्षितमिति तादृशप्रमितिकरणत्वे एकत्वस्यात्रान्वयो भवति न तु प्रमिति करणभूतेषु वेदेष्वित्यर्थः । ननु नानाभूतेषु प्रमितिकरणेषु वेदेषु कथमेकमेव प्रमितिकरणत्वं स्यादि त्याशङ्क्याह-- शाब्देति, यथाऽनेकेषु घटेष्वेकमेव घटत्वं तथाऽनेकेष्वपि प्रमितिकरणेषु वेदेष्वे कमेव प्रमितिकरणत्वं युक्तमिति तत्रैकत्वान्वयस्य नाऽयोग्यता, याचच्छन्दपदेन प्रमाणभूतशब्द ग्राह्यः-- • अनातवाक्येषु प्रमाणत्वास्वीकारात् । इति त्रयः समुदिता हेतुः " इत्यत्र च समुदाये एकमेव हेतुत्वं विवक्षितमिति ताद्दशसमुदाय निष्ठहेतुत्वे एकत्वान्वय समोनवचनत्वं तत्प्राप्तिश्चेत्यर्थः ।
66

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 668