Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 15
________________ अभेदसंबन्धः ] व्युत्पत्तिवादः । स च क्व चिदऽभेदः क्व चिच्च तदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिविषयविषयिभावादिः । अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते यथा- 'नीलो घटः ' 'नीलघटमा. नय' इत्यादी घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य - ' नीलस्य घटः । इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् । संवन्धो द्विविधः- अभेदलक्षणो भेदलक्षणश्च तत्राभेदलक्षणम्यैकत्वाद् भेदलक्षणस्य चाऽनेक. रूपत्वात् प्रथममभेदर्सबन्धमाह- स चेति । सः-संसर्गः । कतिपयभेदसंबन्धानाह- कचिच्चेति । तदतिरिक्तः अभेदातिरिक्तः । 'भूतले घटः ' 'घटवद् भूतलम् ' इन्यादावाऽऽधाराधेयभावः संबन्धः । ' भूतले घटो नास्ति । इत्यादौ प्रतियोग्यनुयोगिभावः संबन्धः । 'घटे ज्ञानम् । सोले इच्छा ,इत्यादौ घटादिविषयकज्ञानस्य मोक्षादिविषयकेच्छायाश्च प्रतीयमानत्वाद् विष विषयित्यादित्यर्थः । एतच्च प्राचीनमतेन, नवीनमतने त्वानुमा बिदासरतासाथ क्वचिदाधेयतासंबन्धो यथा भूतलस्य घटे एवं कचित् प्रतियागिता कागदपोती षयता क्वचिद्विषयिता संबन्ध इति विवेकः । उक्तमभेदसंबन्धं व्युत्पादयति- अभेदश्चेति । “प्रातिपदिकार्थे " इतिसप्तम्यर्थोऽनुयोगित्वम्, “ उपस्थापितस्य " इतिषष्ठयर्थः प्रतियोगित्वम्, पदार्थस्येतिशेषः, यथा-'नीलो घटः। इत्यत्र प्रातिपदिकार्थे घटे स्वसमानविभक्तिकेन= घटादिलक्षणानुयोगिवाचकघटपदादिसमानविभक्तिकेन नीलपदेनोपस्थापितस्य नीलपदार्थस्याऽभेदः संसर्गमर्यादया आकाङ्क्षया भासते नीलपदोत्तरविभक्तेः साधुत्वमात्रार्थकत्वात् । 'नीलघटमानय ' इत्यत्र च स्वसमानविभक्तिकत्वाभावेष्यभेदस्य भासमानत्वेनोक्तम्- स्वाव्यवहितेति, तथा चात्र स्वं घटपदं तदव्यवहितपूर्ववर्तिना नीलपदेनोपस्थापितस्य नीलपदार्थस्य प्रातिपदिकार्थे घटेऽभेदसंबन्धः संसर्गमर्यादया भासतेतादृशसंबन्धोपस्थापकपदाभावात् । एवकारो भिन्नक्रम इति “स्वसमान विभक्तिकेनैव स्वाव्य. वहितपूर्ववर्तिनैव च " इत्यन्वयः, एवकारव्यवच्छेद्यमाह-न विति, नीलस्य धरः इत्यत्र नीलसदस्य घरपदसमानविभक्तिकत्वमपि नास्ति षष्ठया व्यवधानेन च घटपदाव्यर्विवर्तित्वमपि नास्तीति न नीलघटयोरभेदो भासते । नीलपदोत्तरषष्ठयां च बातमदास्यवहितपूर्ववर्तिस्वेप्यऽयोग्यत्वाल षष्ठयर्थसंबन्धस्याभेदेन घटेऽन्वयः संभवति । स्वसमानेत्यादिनियमाभावे च 'नीलस्य घटः' इत्यत्रापि नीलघटयोरभेदान्वयबोधः प्रसज्येत स तु सर्वविज्ञानुभवविरुद्ध एवेति न विरुद्धविभक्तिमत्पदार्थस्याभेदो भासते इति मूलार्थः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 668