Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 4
________________ विशेषा ० ॥ ६०२॥ Jain Education Internationa अपरमपि द्रव्यादिगतं किञ्चित् स्वरूपं प्रसङ्गतः प्राह ओहारो आहेयं च होइ दव्वं तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ || १४०९ ॥ द्रव्यमाधारो भवति पर्यायाणाम्, आधेयं च भवति क्षेत्रे । तथा, भावश्चाधारो भवति कालस्य, काल-वर्णादीनां समयादिस्थितित्वादिति; आधेयश्च भवति द्रव्ये । क्षेत्रमाकाशं पुनः सर्वेषामपि धर्मा धर्म- पुद्गल - जीव-कालद्रव्याणाम्, अगुरुलघुपर्यायाणां वाधार एव, न त्वाधेयम्, सर्वस्यापि वस्तुनस्तत्रैवावगाढत्वात् तस्य च स्वप्रतिष्ठितत्वेनान्यत्राधेयत्वायोगादिति । 'कालो नियमाउ आहे त्ति' कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्य-पर्यायेष्वेव स्थितत्वात्, तत्र चाऽन्यस्यास्थितत्वादिति । त व्याख्यातो नामादिभेदतः सप्तविधोऽप्यनुयोगः ।। १४०९ ।। एतद्विपक्षश्चाननुयोगो भवति, अतस्तं विभणिपुरुक्तोपसंहारं प्रस्तावनां चाह - सो जोगो ओऽणुओगो इओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिहंता ॥ १४१०॥ तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि । अथ विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः स उच्यते । तत्र चैते वक्ष्यमाणा दृष्टान्ता भवन्ति ।। इति त्रयोविंशतिगाथार्थः ।। १४१० ।। के पुनस्ते ननु योगदृष्टान्ताः १, इत्याह वच्छगगोणी खुज्जा सज्झाए चैव बहिरउल्लावे । गामेलए य वयणे सत्तेव य होतं भावस्मि ॥ १४११ ॥ सावगभज्जा सत्तवईए य कोंकणगदारए नउले | कमलामेला संबस्स साहसं सेणिए कोवो || १४९२ ॥ यथाऽनुयोगो नामादिभेदात् सप्तविधो वर्णितस्तथाऽननुयोगोऽपि यथासंभवं वक्तव्यः । तत्र नाम-स्थापने सुगमे । द्रव्याननुयोगे, तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगौरुदाहरणम् । क्षेत्रे त्वननुयोगा-अनुयोगयोः कुब्जोदाहरणम् । काले स्वाध्यायः । वचने पुनरुदाहरण १ आधार आधेयं च भवति द्रव्यं तथैव भावश्व क्षेत्रं पुनराधारः कालो नियमादाधेयः ॥ १४०९ ॥ २ एषोऽनुरूपयोगी गतोऽनुयोग इतो विपर्यस्तम् । यः सोऽननुयोगस्त मे भवन्ति दृष्टान्ताः ॥ १४१० ॥ ३ वत्सकः कुब्जा स्वाध्यायश्चैव बधिरोहापः । ग्रामेयकश्च वचने सप्तैव च भवन्ति भावे ।। १४११ ॥ श्रावकभार्या सातपदिकश्च कोङ्कणकदारको नकुलः | कमलामेला शम्बस्य साहसं श्रेणिके कोपः ॥ १४१२ ॥ For Personal and Private Use Only बृहद्वांसः। ||६०२॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 202