Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 3
________________ विशेषा० ॥४०॥ बृहद्वतिः । RSSRICHENCSCRICHECENTRE तदेव 'तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई' इत्यादिकायां धुरि निर्दिष्टद्वितीयगाथायां मङ्गलरूपं तृतीयद्वारं परिसमाप्य, चतुर्थ समुदायार्थद्वारमभिधानीयम्, इति चेतसि निधाय तावदिदमाह केवलनाणं नन्दी मंगलमिति चेह परिसमत्ताई। अहुणा स मंगलत्थो भण्णइ पगओऽणुओग त्ति ॥८३७॥ केवलज्ञानमिह समाप्तम् , तत्समाप्तौ च नामादिभेदभिन्ना नन्दी समाप्ता, तत्समाप्तौ च मङ्गलं परिसमाप्तम् । अधुना स एव मङ्गलार्थः प्रकृतानुयोगो भण्यते । मङ्गलेनाऽर्थ्यते- प्राप्तुं साधयितुमिष्यत इति मङ्गलार्थो मङ्गलसाध्यः। अथवा, अर्यते गम्यते साध्यत इत्यर्थः, मङ्गलस्यार्थो मङ्गलार्थो मङ्गलसाध्यः, इतीहापि स एवार्थः । स च कः ?, प्रकृतोऽधिकृतोऽनुयोग इति ।। ८३७ ॥ ननूक्तज्ञानपञ्चकस्य मध्ये कतमस्य ज्ञानस्याऽयमनुयोगः ?, इत्याह'सो मइनाणाईणं कयरस्स, सुयस्स, जं न सेसाई । होति पराहीणाई न य परबोहे समत्थाई ॥ ८३८ ॥ पाएण पराहीणं दीवो व्व परप्पबोहयं जं च । सुयनाणं तेण परप्पबोहणत्थं तदणुओगो ॥ ८३९ ॥ स प्रकृतानुयोगः पूर्वोक्तमत्यादिज्ञानपञ्चकस्य मध्ये कतरस्य ज्ञानस्य ?, इति प्रश्ने सत्याह- श्रुतस्य श्रुतज्ञानस्येत्यर्थः, यद् यस्माद् न शेषज्ञानानि पराधीनानि गुर्वायत्तानि भवन्ति, किन्त्वावरणक्षय-क्षयोपशमाभ्यां स्वत एव जायन्ते । अनुयोगश्च व्याख्यानरूपः परायत्तस्यैव भवति, श्रुतमेव च प्रायः पराधीनम् , न शेषज्ञानानि । प्रत्येकबुद्धादीनां श्रुतस्य स्वयमेव भावात् तव्यवच्छेदार्थ पायोग्रहणम् । किञ्च, श्रुतज्ञानमेव परप्रवोधे समर्थम् , मुखरत्वात् । न शेषज्ञानानि, मूकत्वात् । इदमुक्तं भवति-उपदेशेनैव परः प्रबोध्यते, उपदेशश्च शब्देनैव, शब्दश्च कारणे कार्योपचारात् श्रुतज्ञान एवाऽन्तर्भवति, न शेषज्ञानेषु; अतः शब्दात्मकं श्रुतमेव परमबोधकम् । तथा, १ गाथा ।। २ केवलज्ञानं नगदी मालमिति चेह परिसमाप्तानि । अधुना स मङ्गलार्थो भण्यते प्रकृतोऽनुयोग इति ॥ ८३७ ॥ ३ स मतिज्ञानादीनां कतरस्य, श्रुतस्य, यद् न शेषाणि । भवन्ति पराधीनानि न च परबोधे समर्थानि ॥ ८३८ ॥ प्रायेण पराधीनं दीप इव परप्रबोधकं यच्च । श्रुतज्ञानं तेन परप्रबोधनार्थ तदनु लोगः ॥ ८३९ ।। ॥४०१॥ for personal and Private Use arty

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 202