Book Title: Vasudevhindi Part 1 Author(s): Sanghdas Gani, Chaturvijay, Punyavijay Publisher: Atmanand Jain Sabha View full book textPage 7
________________ १ राजनगरीयश्रेष्ठिउभाभाईभाण्डागारसत्का उ० संज्ञका । २ स्तम्भतीर्थीयश्रीशान्तिनाथभएकताडपत्रीयभाण्डागारगता शां० संज्ञका । अनयोः संक्षिप्ताऽभिधा उ२ कृतास्ति । १लीम्बडीसङ्घाटकान्तर्गतस्थानकवासिमुनिश्रीमेघजीऋषिसत्का मे० संज्ञका । उपरि निर्दिष्टासु प्रतिषु मध्ये स्तम्भतीर्थीयश्रीशान्तिनाथभाण्डागारसत्का प्रतिस्ताडपत्रीया मं.. १३८६ मितेऽब्दे लिखिताऽस्ति । एतदतिरिक्ता अन्याःप्रतयः कद्गलोपरि लिखितास्ताडपत्रीयप्रतेराचीनतराश्च वर्तन्ते । आसां विशिष्टः परिचयः, पाठान्तराणां क्रमः, ग्रन्थेपु वर्द्धमानानामशुद्धीनां पाठान्तराणां च प्रकाराः कारणानि चेत्यादिकं द्वितीयांशप्रकाशनावसरे सविस्तरं दास्यामः । अस्माकं संकेता: १ अन्थेऽस्मिन्नस्माभिर्यत्र यत्र लिखितप्रतिष्वशुद्धा एव पाठा उपलब्धास्तत्र तत्र ते पाठाः स्वकल्पनया संशोध्य ( ) एतादृग्वृत्तकोष्ठान्तः स्थापिताः सन्ति-पृष्ठं ९ पंक्तिः २-१०-२०.२७, पृष्ठं १५ पंक्ति १३-१४ २० इत्यादि। २ हस्तलिखितप्रतिषु यत्र यत्र खण्डिताः पाठा आसादितास्तत्र तत्र सम्बन्धयोजनार्थ निवेशिताः पाठाः एताहकोष्ठान्तर्मुक्तस्सान्त-पृ० १. पं० २२, पृ० १३ पं० २८, पृ०२४ पं० १५ आदि। ३ हस्तलिखितप्रतिषु ये पाठा लेखकप्रमादादन्तः प्रविष्टा ज्ञातास्तान् यद्यपि प्रारम्भे [ ] एतादृक्कोष्ठान्तर्निवेश्य टिप्पण्यां "कोष्ठान्तर्गतमिदं प्रामादिकम्" इत्यस्माभिमपितम्-पृ० १६ पं० २४, पृ. २५ पं. ९ किन्वनन्तरमेवैनां पद्धतिं विहाय तादृक्षाः पाठा अस्माभिः [ *] ईदृक्षसफुल्लिककोष्ठान्तर्दर्शितास्सन्ति-पृ० ४२ पं. १६ आदि । ४ ग्रन्थेऽस्मिन् ये सन्दिग्धार्थाः पाठास्तदप्रेऽस्माभिः एतचिह्न (?) विहितम् । यत्र च कियांश्चिइन्थसन्दर्भ एव सन्दिग्धार्थस्तत्राऽऽदावन्ते चापि एतच्चिह्न (? ? ) विहितमिति । ५पाठान्तरेषु प्रतिनामभिः साधं यत्र सं० योजितः स्याद्, यथा-कसं० संसं० गोसं० आदि, तत्र ज्ञातव्यम् , यत्-ते पाठास्तस्यास्तस्याः प्रतेः केनचिद्विदुषा वाचकेन मार्जनेऽन्तर्वा संशोधिता इति । ६ मुद्रितेऽस्मिन ग्रन्थे भूरिस्थलेषु (.) कोष्ठकान्तर्दर्शितो बिन्द्वाकारः पूर्णविरामो द्रक्ष्यते, स चास्माभिरेतदर्थमङ्गीकृतो यत्-“वसुदेवेण भणियं" "मए भणियं" इत्यादिकेषु स्थानेषु तत्तद्वक्तुर्वक्तव्यं क्व समाप्यत इति स्पष्टं ज्ञायेत । अर्थादेकस्या व्यक्तेर्वक्तव्यं पञ्चसु दशसु अधिकेपु वा वाक्येषु यत्र पूर्यते तत्र प्रतिवाक्यं । एतादृपूर्णविरामकरणे क्वचित्क्वचित् भ्रान्तिः सम्भवति साऽनेनाऽपाकृतेति । यत्र पुनरेकस्या व्यक्तेर्वक्तव्यान्तरपरापरव्यक्तिवक्तव्यं दूरं यावत् स्यात् तत्र भ्रान्तिनिवारणार्थ विभागं (पारिग्राफ) कृत्वा । एतादृक्प्रसिद्ध एव पूर्णविरामो विहित इति । ७ प्रतिपत्रं मार्जने ये आङ्गा अङ्का दृश्यन्ते ते तत्तत्पत्रगतपतिसङ्ख्याद्योतनार्थमिति ज्ञेयम् । ८ ग्रन्थेऽस्मिन् स्थाने स्थाने या श्लोकसङ्ख्या निर्दिष्टास्ति सा न हस्तलिखितपुस्तकादर्शगता किन्तु प्रत्यक्षरगणनाविहितास्मद्गणनानुसारिणीति । ग्रन्थस्यास्य संशोधनं पाठान्तरसंग्रहणं चाप्यावाभ्यां गुरु-शिष्याभ्यामतिसावधानतया कृतमस्ति तथाप्यस्मत्प्रज्ञादोषेण सञ्जाताः स्खलना यैः कैश्चिदपि वाचकैदृश्येरन ते ज्ञापयन्त्वस्मान भ्रातृभावेन । द्वितीयेऽशे तदुल्लेखविधानमावां न विस्मरिष्याव इति । निवेदकोपूज्यपाद प्रवर्तकश्रीमत्कान्तिविजय शिष्य-प्रशिष्यो मुनी चतुरविजय-पुण्यविजयौ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 210