Book Title: Vasudevhindi Part 1 Author(s): Sanghdas Gani, Chaturvijay, Punyavijay Publisher: Atmanand Jain Sabha View full book textPage 6
________________ प्रास्ताविक निवेदनम् । प्रकाशनम्-प्रकृतोऽयं वसुदेवहिण्डिग्रन्थः “श्रेष्टिवर्य देवचन्द्र लालभाई जैनपुस्तकोद्धार फण्ड" द्वारा प्रकाशनेच्छया तत्कार्यवाहकैः "न्यायव्याकरणतीर्थ पण्डित बेचरदास जीवराज दोसी" महाशयाय सम्पादनार्थ समर्पित आसीत् । किञ्चाधिकद्रव्यव्ययादिकारणैस्तैरेतत्प्रकाशनं परित्यक्तमित्यस्माभिः पण्डितश्रीबेचरदासपार्थात् तत्प्रतिकृति (प्रेसकॉपी) गृहीत्वा तत्सम्पादनादिकः समस्तोऽपि कार्यभारः स्वीकृतः। अद्य वर्षचतुष्टयान्ते वयं तस्य प्रथमखण्डस्य प्रथममंशं विद्वत्करकमलेपु समर्प्य कृतार्थीभवामः । __ वसुदेवहिण्डिस्तत्कारश्च-ग्रन्थोऽयं खण्डद्वयेन लम्भकशतेन तत्प्रान्तोल्लिखितश्लोकसङ्ग्यानुसारेणाष्टाविंशतिसहस्रप्रमितः श्लोकैश्च पूर्णो भवति । आद्यखण्ड एकोनत्रिंशल्लम्भकात्मक एकादशसहस्रश्लोकप्रमितश्च । द्वितीयः पुनरेकसप्ततिलम्भकात्मकः सप्तदशसहस्रश्लोकप्रमाणश्च । ग्रन्थस्यास्य खण्ड. द्वयं नैकाचार्यविनिर्मितं किन्तु पृथक्पृथगाचार्यसूत्रितम् । आद्यखण्डः श्रीसङ्घदासगणिवाचकसन्दृब्धः, द्वितीयः पुनः श्रीधर्मसेनगणिमहत्तरविहितः । अद्यावधिकृतास्मदवलोकनाधारेणैतज्ज्ञायते यत्-आद्यखण्डो मध्ये प्रान्ते च त्रुटितः। एतत्खण्डप्रान्ते या एकादशसहस्रमिता श्लोकसङ्ख्योल्लिखिता वरीवृत्यते सा प्रत्यक्षरगणनाविहितारमच्छोकसङ्ख्यानुसारेण सहस्रश्लोकमिता न्यूना भविष्यतीत्येतदनुमीयते यत्-प्रथमखण्डमध्ये त्रुटितोंऽश एतावानेव स्याद् यावानस्सद्गणनायां त्रुटिष्यति । साम्प्रतं प्रकाश्यमानोऽयं प्रथमोऽशः श्रीसङ्घदासगणिवाचकविनिर्मितस्याद्यखण्डस्यांशः । एतखण्डस्यास्य कर्तश्च सविशेष परिचयं द्वितीयेंऽशे कारयिष्यामः। अत्र तावत् संक्षेपेणैतदेवावेदयामः, यत्-प्रथमखण्डविनिर्माताऽऽचार्यो भाष्यकारश्रीजिनभद्गगणिक्षमाश्रमणाच्चिरन्तन इति । एतच्च भाष्यकृद्विरचितविशेषणवतिग्रन्थान्तर्गतेनैतन्थाभिधानोल्लेखदर्शनेनावबुध्यते ।। प्रथमोऽश:-अधुना प्रसिद्धि प्राप्यमाणोऽयमंशो लम्भकसप्तकान्तो वर्तते। अर्थाद ग्रन्थारम्भे (पृष्ठ १ पंक्तिः १७) ग्रन्थकृद्भिः प्राधान्येन निर्दिष्टा ये षडाधिकारा दरीदृश्यन्ते तानाश्रित्य 'कहप्पत्ती पेढिया मुहं पडिमुहं' इत्येते चत्वारोऽर्थाधिकाराः, एकोनत्रिंशल्लम्भकात्मकस्य पञ्चमस्य 'सरीरा'ऽऽख्यस्यार्थाधिकारस्य सप्त लम्भका अस्मिन् समावेशिताः सन्ति । धम्मिलुहिण्डि:-यद्यपि ग्रन्थस्यास्याभिधानं वसुदेवहिण्डिरित्यस्ति तथाप्यस्मिन् धम्मिल्लहिण्डिर्वसुदेवहिण्डिरित्येवं हिण्डियुग्मं व्यावर्णितं दृश्यते । कहुप्पत्तीवर्णनानन्तरं सद्य एव धम्मिल्लाहिण्डिवर्तते । किन महान ग्रन्थसन्दर्भो वसुदेवहिण्डिसम्बद्ध इति ग्रन्थस्यास्याभिधा वसुदेवहिण्डिरिति । सञ्चिताः प्रतयः-ग्रन्थस्यास्य संशोधनकर्मणि निम्नोद्धृताः प्रतयः सञ्चिता वर्तन्ते १ लीम्बडी-सङ्घभाण्डागारसत्का ली० संज्ञका । २ त्रिस्तुतिकोपाध्यायश्रीयतीन्द्रधिजयजित्सत्का य० संज्ञका । ३ राजनगरीय (अमदावाद) डेलाभाण्डागारसत्का डे० संज्ञका । एतास्तिस्रः प्रतयः परस्परमतिसमाना इति पाठान्तरग्रहणावसरे मा भूत् ली य० डे० इति पुनःपुनर्लेखनश्रम इत्यस्माभिरासां तिसृणां प्रतीनां संक्षिप्ताऽभिधा ली ३ कृतास्ति । प्रवर्तक-प्रज्ञांशश्रीलाभविजयजित्सत्का क० संज्ञका । २ पत्तनीय-मोदीसत्कज्ञानकोशगता मो० संज्ञका । ३ पत्तनश्रीसङ्खभाण्डागारसत्का सं० संज्ञका। आसां प्रतीनां संक्षिप्ताऽभिधा क३ विहितास्ति। गोधा-श्रीसङ्घभाण्डागारसत्का गो० संज्ञका । २ पत्तनस्थवाडीपार्श्वनाथभाण्डागारसत्का वा० संज्ञका। ३ स्तम्भतीर्थीय (खम्भात) श्रेष्टिअम्बालालपानाचंदसत्कधर्मशालापुस्तकसंग्रहगता खं०संज्ञका। आसां संक्षिप्ताऽऽख्या गो ३ विहिताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 210