Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir श्रीरङ्गेशाय नमः॥वात्स्यश्रीशठकोपदेशिकवरश्रीपादुरेण्वञ्जनदृष्टया निर्मलया निरीक्ष्य बहुधा वल्मीकजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिगोविन्द राजाह्वयो व्याचक्षेऽहमरण्यकाण्डमधुना पश्यन्तु निर्मत्सराः ॥ श्रीरामायणराजस्य दत्त्वा पीताम्बरं महत् । अर्पये परया लक्ष्म्या राजन्ती रत्नमेखलाम् ।। एवं पूर्वस्मिन् काण्डे जगजन्मादिकारणस्य वेदान्तवेद्यस्य ब्रह्मणो निरस्तसमस्ताविद्यत्वं नित्यानन्दपरिपूर्णत्वं निखिलान्तर्यामित्वं निरतिशयो. श्रीरङशाय नमः ॥ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥१॥ कुशचीरपरिक्षिप्तं ब्राहया लक्षम्या समावृतम् । यथा प्रदीप्तं दुर्दर्श गगने सूर्यमण्डलम् ॥२॥ ज्ज्वल्य निरुपमधर्मप्रवर्तकत्वमित्याद्यनन्तकल्याणगुणजातमुपवर्णितम् । सम्प्रति सजनसंरक्षणरूपंधर्मविशेषमभिधातुमारण्यकाण्ड आरभ्यते । यद्वा पूर्व काण्डे पितृवचनपरिपालनरूपो धर्मः सद्भिरनुष्ठातव्य इति प्राधान्येन दर्शितम् । अथ सज्जनसंरक्षणरूपं धर्मविशेष प्रतिपादयितुमारण्यकाण्ड आरभ्यतेप्रविश्येत्यादि । तुशब्दः पूर्वारण्यलक्षण्यं योतयति । महारण्यम् इतरदुरवगाहम् । दण्डकारण्यं दण्डकस्य राज्ञोऽरण्यं शुक्रशापादरण्यभूतं जनपदम् । प्रविश्य आत्मवान् धैर्यवान्, दुरवगाहमहागहनप्रवेशेप्यजनितभयलेश इत्यर्थः । तत्र हेतुमाह दुर्धर्प इति । हिंस्रादिभिरप्रधृष्य इत्यर्थः । रामः तापसानां तपस्विनाम् । आश्रममण्डलम् आश्रमसमूहम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम्" इति बाणः। ददर्श ॥१॥ अभिगम्यत्वायाश्रममण्डलं वर्ण । यति-कुशेत्यादिभिः सार्धसप्तशांकः । कुशैः यज्ञार्थमाहृतैः चीरैःस्नानानन्तरमातपे परिशोषणार्थ क्षिप्तैर्वल्कलैश्च परिक्षिप्तं व्याप्तम् । ब्रह्म वेदः तत्सम्ब धिनी वेदाध्ययनतदानुष्ठानजन्येत्यर्थः । तया लक्ष्म्या श्रिया समावृतं समन्तादावृतम् अत एव गगने प्रदीप्तं, गगनमध्यस्थमित्यर्थः । दुर्दर्श सूर्यमण्डलं यथा तथावस्थितमित्यर्थः । तद्वद्रक्षोभिरनभिभवनीयम् । उदयास्तमययोहि सूर्यस्य मन्देहाख्यरक्षोभिराक्रमणम् नतु मध्याह्ने॥२॥ श्रीरामचन्द्राय नमः ॥ 'इक्ष्वाकुवंशप्रभवः' इत्यारभ्य 'दण्डकान्प्रविवेशह' इत्यन्तेन ग्रन्थसन्दर्भण संक्षिप्य नारदेनोक्तं श्रीरामचरितं सर्वलोकोपकारकं महा। प्रबन्धेनोक्त्वा अधुना देवस्य दण्डकारण्यसञ्चारसमुद्भूतानद्भुतान्पराक्रमान्विस्तरेण वक्तुं तृतीयकाण्डमारभते-प्रविश्येत्यादि । आत्मवान् धृतिमान “आत्मा जीवे धृतौ च" इति यादवः । दुर्धर्षः द्विषद्भिरप्रधृष्यः, तिरस्कर्तुमशक्य इत्यर्थः । महारण्यमिति सामान्येनोक्तस्य दण्डकारण्यमिति विशेषसंज्ञा । दण्डकनाना राज्ञा परि पालितो देशः शुक्रशापादरण्यमभूदित्युत्तरकाण्डे वक्ष्यति । मण्डलं समूहः ॥ १॥ तापसाश्रममण्डलं वर्णयति-कुशेत्यादिना सार्द्धसप्तश्लोकः । चीराणि वल्क। लानि । परिक्षिप्तं व्याप्तम् । ब्राह्मी लक्ष्मीः तपोजनिततेजोविशेषः तया समावृतम् । तया समावृतत्वादेव गगनाधिकरणसूर्यमण्डलवदुईर्श रक्षोऽसुरादिभिर्द्रष्टु । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 699