Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मोक्षापेक्षया उपायानुष्ठानं चक्रुः किन्तु दुष्टराक्षस निरसनापेक्षया । नगरस्थो वनस्थो वेति इतरे मूर्धाभिषिका बुद्धिबलेन स्थानबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे समर्था भवन्ति । सकललोकरक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते वनवासे किमपचीयते, स्वाभाविक नित्यनिरतिशयशक्ति सम्पन्नस्याव सादकं | सत्त्वं किमपि नास्तीत्यर्थः । सोपाधिकशेषिणो देशविशेषादिसम्बन्धापेक्षा निरुपाधिकशेषिणस्तव यत्र कुत्रचिदवस्थानेप्यस्मद्रक्षणमावश्यकमिति राजशब्दार्थः ॥ १९ ॥ ननु भवन्त एव तपःप्रभावेन स्वरक्षणक्षमा इत्यत्राहुः - न्यस्तेति । न्यस्तः त्यक्तो दण्डो यैस्ते न्यस्तदण्डाः, शापतो निग्रहकरणरहिता इत्यर्थः । तत्र न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः । रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥ २० ॥ हेतुः जितक्रोधा इति । तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः जितेन्द्रिया इति । इन्द्रियजयेन कामाद्यभिष्वङ्गाभावात्तन्मूलको धरहिता इत्यर्थः । वस्तुतस्तु स्वसामर्थ्यं सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमित्याहुः । त्वया रक्षितव्या इति अनन्याईशरणा इत्यर्थः । गर्भ भूताः प्रजातुल्याः, अनेनानन्या ईशेषत्वमुक्तम् । शश्वदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति तेनानन्याहिशेषत्वानन्य शरणत्वयोः स्वाभाविकत्वमुक्तम् । तथापि साधनं विना रक्षणेऽतिप्रसङ्गः स्यादित्यत्राहुः तपोधना इति । तपोत्र न्यासनिक्षेपापरपर्यायः । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः । प्रपत्त्येकधना वयमित्यर्थः । अस्मत्कृतां प्रपत्तिं व्याजीकृत्यास्मान् रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरादिभ्यस्त्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्य माणत्वात् । इमे तु मुनयो मोक्षैकपराः ॥ २० ॥ तनि०- महाप्रभावानां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राहुः - न्यस्तदण्डाः त्यक्तशापादिशासनाः । यद्वा त्वय्येव | विन्यस्तसकलराक्षस शिक्षामाराः अतएव गर्भभूताः गर्भो यथा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीया इत्यर्थः ॥ २० ॥ करुणाशालिना रक्ष्याः । अत्रास्मद्रक्षणं नाम अनन्तकल्याणगुणैकनिलय जगन्मोहनदिव्यमङ्गलत्वन्मूर्तिध्यानानन्दानुभवान्तरायरूपरक्षोनिवारणरूपम् । अति प्रसङ्गपरिहारार्थमाह भवद्विषयवासिन इति । विषयो देशः । अयं भावः - इतरे राजानो बुद्धिबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे शक्ता भवन्ति, सकललोक रक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते, स्वाभाविक नित्यनिरतिशयज्ञानशक्तिसम्पन्नस्य तव वनवासे किमपचीयते ? अतो यत्रकुत्रापि | स्थितस्य तवासाध्यं किमपि नास्तीति ॥ १९ ॥ महाप्रभाववतां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राह - न्यस्तदण्डा इति । न्यस्तदण्डाः त्यक्तशापादि शासनाः । यद्वा त्वय्येव विन्यस्तसकलराक्षसशिक्षामाराः । अत एव गर्भभूताः गर्भो यथा मात्रा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीयाः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 699