________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मोक्षापेक्षया उपायानुष्ठानं चक्रुः किन्तु दुष्टराक्षस निरसनापेक्षया । नगरस्थो वनस्थो वेति इतरे मूर्धाभिषिका बुद्धिबलेन स्थानबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे समर्था भवन्ति । सकललोकरक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते वनवासे किमपचीयते, स्वाभाविक नित्यनिरतिशयशक्ति सम्पन्नस्याव सादकं | सत्त्वं किमपि नास्तीत्यर्थः । सोपाधिकशेषिणो देशविशेषादिसम्बन्धापेक्षा निरुपाधिकशेषिणस्तव यत्र कुत्रचिदवस्थानेप्यस्मद्रक्षणमावश्यकमिति राजशब्दार्थः ॥ १९ ॥ ननु भवन्त एव तपःप्रभावेन स्वरक्षणक्षमा इत्यत्राहुः - न्यस्तेति । न्यस्तः त्यक्तो दण्डो यैस्ते न्यस्तदण्डाः, शापतो निग्रहकरणरहिता इत्यर्थः । तत्र
न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः । रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥ २० ॥
हेतुः जितक्रोधा इति । तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः जितेन्द्रिया इति । इन्द्रियजयेन कामाद्यभिष्वङ्गाभावात्तन्मूलको धरहिता इत्यर्थः । वस्तुतस्तु स्वसामर्थ्यं सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमित्याहुः । त्वया रक्षितव्या इति अनन्याईशरणा इत्यर्थः । गर्भ भूताः प्रजातुल्याः, अनेनानन्या ईशेषत्वमुक्तम् । शश्वदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति तेनानन्याहिशेषत्वानन्य शरणत्वयोः स्वाभाविकत्वमुक्तम् । तथापि साधनं विना रक्षणेऽतिप्रसङ्गः स्यादित्यत्राहुः तपोधना इति । तपोत्र न्यासनिक्षेपापरपर्यायः । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः । प्रपत्त्येकधना वयमित्यर्थः । अस्मत्कृतां प्रपत्तिं व्याजीकृत्यास्मान् रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरादिभ्यस्त्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्य माणत्वात् । इमे तु मुनयो मोक्षैकपराः ॥ २० ॥ तनि०- महाप्रभावानां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राहुः - न्यस्तदण्डाः त्यक्तशापादिशासनाः । यद्वा त्वय्येव | विन्यस्तसकलराक्षस शिक्षामाराः अतएव गर्भभूताः गर्भो यथा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीया इत्यर्थः ॥ २० ॥
करुणाशालिना रक्ष्याः । अत्रास्मद्रक्षणं नाम अनन्तकल्याणगुणैकनिलय जगन्मोहनदिव्यमङ्गलत्वन्मूर्तिध्यानानन्दानुभवान्तरायरूपरक्षोनिवारणरूपम् । अति प्रसङ्गपरिहारार्थमाह भवद्विषयवासिन इति । विषयो देशः । अयं भावः - इतरे राजानो बुद्धिबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे शक्ता भवन्ति, सकललोक रक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते, स्वाभाविक नित्यनिरतिशयज्ञानशक्तिसम्पन्नस्य तव वनवासे किमपचीयते ? अतो यत्रकुत्रापि | स्थितस्य तवासाध्यं किमपि नास्तीति ॥ १९ ॥ महाप्रभाववतां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राह - न्यस्तदण्डा इति । न्यस्तदण्डाः त्यक्तशापादि शासनाः । यद्वा त्वय्येव विन्यस्तसकलराक्षसशिक्षामाराः । अत एव गर्भभूताः गर्भो यथा मात्रा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीयाः
For Private And Personal Use Only