SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kobatirth.org वा.रा.भ. टी.आ.को .२ ॥ ६ ॥ अतस्तेषां प्रपन्नानां यथोचितकैर्यप्रवृत्तिं दर्शयति-एवमित्यादि । ऋपयः एवमुक्त्वा सलक्ष्मणं राघवं वन्यैः पुष्पैः फलादिभिश्चापूजयन् । राघवमित्यनेन सीतापूजनमप्यसिद्धम् । मिथुनशेषित्वस्यैव स्वरूपत्वात् प्रभाप्रभावळ्यायेन तयोरपृथग्भावात् । अन्यैः सङ्कल्पसिद्धैः। विविधाहारैः मृष्टान्नादिभिः ॥२॥१ तथान्य इति । सिद्धाः सिद्धसाधननिष्ठाः। न्यायवृत्ताः न्यायानुगुणव्यापाराः, स्वरूपानुरूपकैकयवृत्तय इत्यर्थः । वैश्वानरोपमाः अस्पृष्टविरोधिनः स्वरूप एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् । अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः ॥१॥ कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ ३ ॥ विरुद्धनिषिद्धकाम्यकर्मान्तरत्यागिन इत्यर्थः । अन्ये पूर्वेभ्यो विलक्षणाः। तापसाः कायिककैङ्कशक्ता इत्यर्थः। ईश्वरं परमशेपिणं रामं यथान्यायं यथो चितं स्तुतिप्रणामादिभिस्तर्पयामासुरित्यर्थः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प्रथमः सर्गः॥१॥ एवं प्रथमसर्गेण सिद्धसाधननिष्टानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैकय प्रतिपाद्य खरखधार्थिमुनिजनशरणागति वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्य विराधवधकथनमुखेन बोधयितुमुपक्रमते-कृतातिथ्य इत्यादिना । अत एव संक्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह" इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्या लक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भगवतः परम भोग्य पत्रं पुष्पमित्यादि । अथशब्दः कृत्सवाची, कात्स्न्येन कृतातिथ्य इत्यर्थः। भक्तैर्यत् किञ्चिद्दत्तमपि तत् सर्वातिथ्यत्वेन हि भगवान् स्वीकरोति । इत्यर्थः ॥ २०॥ अन्पैनीवारादिभिः ॥ २१॥ सिद्धाः भरद्वाजादिवसिद्धसङ्कल्पाः । न्यायवृत्ताः न्यायो भगवपासनादिरूपधर्मः स पर पतं शीलं येषां ते तथा कृताभ्यवहारमीश्वरं सकल जगत्स्वामिनं नीराजनमङ्गलस्तुत्यादिभिर्यथान्यायं यथाविधि तर्पयामासुः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥ कृत इति । सूर्यस्योदयनं प्रति उदयकाल इत्यर्थः । अवगाहत प्राषिशत् ॥१॥ स०-सलक्ष्मण लक्ष्मणेन श्रीवासचिन वैदेया सहितमिति यावत् । एतेन पूर्व रामलक्ष्मणाभ्यां सह दृष्टापासीतापाः कवनस्पमिति शङ्का परास्ता ॥ २१ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy