SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सूर्यस्योदयनं प्रतीति कर्मप्रवचनीययोगे द्वितीया । "लक्षणेत्थम्भूताख्यान-" इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । उदयनं प्रति उदयकाले, प्रातःस्रानादि कावसान इत्यर्थः । वनमेवान्वगाहत नच तत्र स्थातुमेच्छदित्यर्थः॥१॥ नानामृगगणेत्यादिश्लोकद्वयमेकान्वयम् । ध्वस्तवृक्षलतागुल्मं तुङ्गकठिन विराधदेहसंपर्कादिति भावः। दुर्दर्शसलिलाशयमित्यत्रायेप्ययमेव हेतुः।निष्कूजनानाशकुनि निःशब्दनानाविधपक्षिकं, सुदूरमुड्डीयमानोपि पक्षी तस्मात् भिया निःशब्द लीयत इति भावः। झिल्लिकागणनादितं झिल्लिकाभिस्तु दुर्दर्शत्वात् सर्वदा शब्द्यत इत्यर्थः । नानेत्यादि सर्व वनमध्यविशेषणम् ॥२॥३॥ नानामृगगणाकीर्ण शार्दूलवृकसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ २ ॥ निष्कूजनानाशकुनि झिल्लिकागणनादितम् । लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥३॥ सीतया सह काकुत्स्थस्तस्मिन् घोर मृगायुते । ददर्श गिरिगृङ्गाभं पुरुषादं महास्वनम् ॥४॥ गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ॥५॥ वसानं चर्म वैयाघ्रं वसा, रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥६॥ त्रीन सिंहांश्चतुरो व्याघ्रान् द्रौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो महत् । अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ७॥ सीतया सहेत्यादि सार्घश्लोकचतुष्टयमेकान्वयम् । घोरमृगास्तरवादयः। पुरुषानत्ति भक्षयतीति पुरुषादः। पचायच । राक्षसमित्यर्थः। महास्वनं दृढकण्ठ ध्वनिकम् ॥ ४॥ गम्भीराक्षं निम्राक्षम् । महावकं पृथुतरमुखम् । विकटं विशालम् । विपमोदरं निनोन्नतोदरम् । बीभत्सं मांसरुधिरालिप्तशरीरतया कुत्सितम् । विपमं न्यूनाधिकावयवम् । विकृतम् उक्तप्रकारेण विकृतवेषम् अत एव घोरदर्शनम् ॥५॥ वसा मांसं तया आईम् । रुधिरोक्षितं रक्तसिक्तम् ।। व्यादितास्यं व्यात्तास्यम् । आर्ष इट् ॥६॥त्रीनित्यादि । भक्षणार्थमिति शेपः। पृषतान् बिन्दुमृगान् । आयसे अयोमये शूले। अवसज्य प्रोतान् वृक्षादिध्वंसे विराधकृतोपप्लवः कारणं दुर्दुर्शसलिलाशयमित्युक्तहेतोरेव । पक्षिणां साध्वसेन निकूजाः निश्शब्दा नानाविधाः शकुनयो यस्मिन् तत् ।। झिल्लिकागणनादितं रामो वनमध्यं ददर्शेति पूर्वेण सम्बन्धः ॥२॥३॥ गिरिशृङ्गामं गिरेःशृङ्ख आभा उपमा यस्य तम् ॥ ४॥ गम्भीराक्षं निम्रनयनम् । विकटं पावक्रम् । बीभत्सं कुत्सितम् । विषमं निस्रोन्नतम् । विकृतं वक्ष्यमाणधर्मवत्त्वाविपरीतवेषम् ॥ ५॥ वसाई चर्म वसानम् वसा मांसविशेषः ॥ ६॥ भक्षणार्थ सिंहादीन I For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy