Book Title: Vaiyakaran Siddhant Kaumudi Author(s): Vasudev Lakshman Shastri Publisher: Pandurang Jawaji View full book textPage 5
________________ ॥ श्रीगणेशाय नमः॥ अथ वैयाकरणसिद्धान्तकौमुदी। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥१॥ अइउण् । १। ऋलक् ।२। एओङ् । ३। ऐऔच । ४ । हयवरट् । ५। लण् । ६। अमङणनम् । ७। झभञ्।८। घढधष् । ९। जबगडदश।१०। खफछठथचटतव् । ११ । कपय । १२। शषसर । १३ । हलू । १४ । इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि ॥ एषामन्त्या इतः ॥ लणसूत्रेऽकारश्च ॥ हकारादिष्वकार उच्चारणार्थः ॥ हलन्त्यम् ॥१॥३॥३॥ हलिति सूत्रेऽन्त्यमित्स्यात् ॥ आदिरन्त्येन सहेता ।१।१७१ ॥ अन्त्येनेता सहित आदिमध्यगानां स्वस्य च संज्ञा स्यात् । इति हल्संज्ञायाम् ॥ हलन्त्यम् ॥१॥३॥३॥ उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् ॥ ततोऽणजित्यादिसंज्ञासिद्धौ ॥ उपदेशेऽजनुनासिक इत् ।१।३।२॥ उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् ॥ प्रतिज्ञानुनासिक्याः पाणिनीयाः । लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेण्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् । नात्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवहियन्ते ॥ ऊकालोऽज्झस्वदीघंप्लुतः।१२।२७ ॥ उश्च ऊश्च ऊ३श्च वः । वां काल इव कालो यस्य सोऽच् क्रमात् हखदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥ उच्चैरुदात्तः।१।२।२९ ॥ ताल्वादिषु सभागेषु स्थानेषूर्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥ नीचैरनुदात्तः । १२।३०॥ स्पष्टम् । अर्वाङ् ॥ समाहारः स्वरितः ॥२॥३१॥ उदात्तानुदात्तत्वे वर्णधर्मों समाहियेते यस्मिन्सोऽच् खरितसंज्ञः स्यात् ॥ तस्यादित उदात्तमर्धहस्वम् । १॥२॥३२॥ हखग्रहणमतन्त्रम् । खरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धे तु परिशेषादनुदात्तम् । तस्य चोदात्तखरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क वोऽश्वाः । रानां न ये राः । शतचक्रं यो यः इत्यादिष्वनुदात्तः । अमिमीळ इत्यादावुदात्तश्रुतिः । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥ मुखना १ हकारो द्विरुपात्तोऽयमटि शल्यपि वाञ्छता । अhणाधुक्षदित्यत्र द्वयं सिद्धं भविष्यति ॥ १॥ २ धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥२॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 532