Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 11
________________ असंधिः। पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वा सुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् ॥ तेन एडादौ सुब्धातौ वा ॥ उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥ एवे चानियोगे * ॥ नियोगोऽवधारणम् । केव भोक्ष्यसे । अनवक्लुप्तावेवशब्दः । अनियोगे किम् । तवैव ॥ अचोऽन्त्यादि टिशश६४ ॥ अचां मध्ये योऽन्त्यः स आदिर्यस्य तसिंज्ञ स्यात् ॥ शकन्ध्वादिषु पररूपं वाच्यम् * ॥ तच्च टेः । शकन्धुः । कर्कन्धुः । कुलटा । सीमन्तः केशवेशे । सीमान्तोऽन्यः । मनीषा । हलीषा । लागलीषा । पतञ्जलिः ॥ सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः ॥ आकृतिगणोऽयम् ॥ मार्तण्डः ॥ ओत्वोष्ठयोः समासे वा * ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥ ओमाङोश्च । ६।१०९५ ॥ ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः ॥ शिव एहि । शिवेहि ॥ अव्यक्तानुकरणस्यात इतौ ।।११९८॥ ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ एकाचो न * ॥ अदिति । नानेडितस्यान्त्यस्य तु वा ।६।१।९९ ॥ आमेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् ॥ डाचि बहुलं द्वे भवत इति बहुलवचनाद्वित्वम् ॥ तस्य परमानेडितम् ।८॥२॥ द्विरुक्तस्य परं रूपमाप्रेडितसंज्ञं स्यात् । पटत्पटेति ॥ झलां जशोऽन्ते।। २॥३९॥ पदान्ते झलां जशः स्युः । पटरपटदिति ॥ अकः सवर्ण दीर्घः।६।१।१०१॥ अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ “अकोऽकि दीर्घ इत्येव सुवचम् ॥" ऋति सवर्णे ऋ वा * ॥ होतृकारः । होतृकारः ॥ लति सवर्णे ल वा * ॥ होलकारः । पक्षे ऋकारः सावात् । होतृकारः । ऋति ऋ वा लति ल वेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्मक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि 'ऋत्यक' इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥ एङः पदान्तादति ।६।१।१०९ ॥ पदान्तादेकोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥ सर्वत्र विभाषा गोः ।।१।१२२ ॥ लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गोअग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥ अवङ् स्फोटायनस्य ।६।१।१२३ ॥ अंतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥ इन्द्रे च ।।१।१२४ ॥ गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥ ॥ अथ प्रकृतिभावः॥ प्लुतप्रगृह्या अचि नित्यम् ।६।१।१२५ ॥ प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि नित्यं प्रकृत्या स्युः । एहि १निश्चय इत्यर्थः ॥ २ अच इति निर्धारणे षष्ठी॥ ३ अयं पाठो मनोरमास्थः ॥ ४ अत्र व्याख्यैव प्रमाणम् ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 532