Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 19
________________ अजन्ताः पुंलिङ्गः । १५ नादिचि ॥ वृद्धिरेचि ॥ रामौ ॥ चुटू ॥१॥३७॥ प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥ न विभक्तौ तुस्माः ।।३।४॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्वम् ॥ अतो गुणे ।६।११९७ ॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे इति हि पुरस्तादपवादा अनन्तराविधीन्बाधन्ते नोत्तरानिति न्यायेनाकः सवर्ण इत्यस्यैवायमपवादो न तु प्रथमयोरित्यस्यापि । रामाः ॥ एकवचनं संबुद्धिः ।।३३४९ ॥ संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥ एहवात्संबुद्धेः ।६।१।६९ ॥ एङन्ताद्भखान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैहखाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते हखात्परत्वं नास्ति ॥ अमि पूर्वः ।६।१।१०७ ॥ अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥ लशकतद्धिते ।१।३३८॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥ तस्माच्छसो नः पुंसि ।६।१।१०३ ॥ पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥ अकुप्वानुम्व्यवायेऽपि ।८४।२॥ अटकवर्गपवर्गआङ्नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपीति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुखारोपलक्षणार्थम् । तच्चाकर्तु शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥ पदान्तस्य ।८४।३७॥ पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।।४।१३ ॥ यः प्रत्ययो यस्माक्रियते तदादि शब्दखरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्टस्याऽङ्गसंज्ञार्थ तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती। प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूत् ॥ अङ्गस्य ।६।४ ॥१॥ इत्यधिकृत्य ॥ टाङसिङसामिनात्स्याः ७१।१२ ॥ अकारान्तादगाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् रामेण ॥ सुपि च ७३३१०२॥ यज्ञादौ सुपि परे अतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥ अतो भिस ऐस ७१।९॥ अकारान्तादङ्गाद्भिस ऐस स्यात् । अनेकालत्वात्सर्वादेशः । रामैः ॥ डेयः ७११११३ ॥ अतोऽङ्गात्परस्य डे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुप्त्वात्सुपि चेति दीर्घः । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥ बहुवचने झल्येत् ॥३॥ १०३ ॥ झलादौ बहुवचने सुपि परे अतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ॥ वावसाने ८॥४॥५६॥ अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामा - १ संनिपातो द्वयोः संबन्धः । उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा परिभाषा ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 532