________________
अजन्ताः पुंलिङ्गः ।
१५ नादिचि ॥ वृद्धिरेचि ॥ रामौ ॥ चुटू ॥१॥३७॥ प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥ न विभक्तौ तुस्माः ।।३।४॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्वम् ॥ अतो गुणे ।६।११९७ ॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे इति हि पुरस्तादपवादा अनन्तराविधीन्बाधन्ते नोत्तरानिति न्यायेनाकः सवर्ण इत्यस्यैवायमपवादो न तु प्रथमयोरित्यस्यापि । रामाः ॥ एकवचनं संबुद्धिः ।।३३४९ ॥ संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥ एहवात्संबुद्धेः ।६।१।६९ ॥ एङन्ताद्भखान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैहखाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते हखात्परत्वं नास्ति ॥ अमि पूर्वः ।६।१।१०७ ॥ अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥ लशकतद्धिते ।१।३३८॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥ तस्माच्छसो नः पुंसि ।६।१।१०३ ॥ पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥ अकुप्वानुम्व्यवायेऽपि ।८४।२॥ अटकवर्गपवर्गआङ्नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपीति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुखारोपलक्षणार्थम् । तच्चाकर्तु शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥ पदान्तस्य ।८४।३७॥ पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।।४।१३ ॥ यः प्रत्ययो यस्माक्रियते तदादि शब्दखरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्टस्याऽङ्गसंज्ञार्थ तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती। प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूत् ॥ अङ्गस्य ।६।४ ॥१॥ इत्यधिकृत्य ॥ टाङसिङसामिनात्स्याः ७१।१२ ॥ अकारान्तादगाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् रामेण ॥ सुपि च ७३३१०२॥ यज्ञादौ सुपि परे अतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥ अतो भिस ऐस ७१।९॥ अकारान्तादङ्गाद्भिस ऐस स्यात् । अनेकालत्वात्सर्वादेशः । रामैः ॥ डेयः ७११११३ ॥ अतोऽङ्गात्परस्य डे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुप्त्वात्सुपि चेति दीर्घः । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥ बहुवचने झल्येत् ॥३॥ १०३ ॥ झलादौ बहुवचने सुपि परे अतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ॥ वावसाने ८॥४॥५६॥ अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामा
- १ संनिपातो द्वयोः संबन्धः । उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा परिभाषा ॥