________________
सिद्धान्तकौमुद्याम्
भ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चेति चर्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरभ्यते ॥ ओसि च ७३३१०४ ॥ ओसि परे अतोऽङ्गस्य एकारः स्यात् । रामयोः ॥ इखनद्यापो नुट् 1७११५४ ॥ हखान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥ नामि ।६।४। ३॥ नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चेति दी? यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामीत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥ अपदान्तस्य मूर्धन्यः ८३॥५५॥ आपादपरिसमाप्तेरधिकारोऽयम् ॥ इण्कोः ८३३५७ ॥ इत्यधिकृत्य ॥ आदेशप्रत्ययोः ८३ ।५९ ॥ सहेः साडः स इति सूत्रात्स इति षष्ठयन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्यापदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः सुपिसौ सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥ सर्वादीनि सर्वनामानि ।।१।२७ ॥ सर्वादीनि शब्दवरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति बल् । परमभवकानित्यत्राकच्च सिद्ध्यति ॥ जसः
शी ७१।१७॥ अदन्तात्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकालत्वात्सर्वादेशः । नचार्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकालत्वमिति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे ॥ सर्वनाम्नः स्मै श१४॥ अतः सर्वनाम्नो डे इत्यस्य सै स्यात् । सर्वस्मै ॥ उसिड्योः स्मास्मिनौ ७१११५ ॥ अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥ आमि सर्वनाम्नः सुट् ।।१५२ ॥ अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत् , त्व, नेम, सम, सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । खमज्ञातिधनाख्यायाम् । अन्तरं बहियोगोपसंव्यानयोः । त्यद् , तद्, यद्, एतद् , इदम् , अदस् , एक, द्वि, युष्मद् , अस्मद् , भवतु, किम् , इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येह पाठस्तु उभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाभावेनोभयत उभयत्रेत्यादाविवायच्प्रसङ्गात् । तदुक्तम् । उभयोऽन्यत्रेति ॥ अन्यत्रेति द्विवचनपरत्वाभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माजस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमेति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति । सुप्तिङन्तमिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाविबहुविषये निर्धा