________________
अजन्ताः पुंलिङ्गाः । रणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्व त्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासंख्यमनुदेशः समानामिति ज्ञापकात् ॥ अन्तरं बहियोगेति गणसूत्रेऽपुरीति वक्तव्यम् * ॥ अन्तरायां पुरि ॥ पूर्वपरावरदक्षिणोत्तरा. पराधराणि व्यवस्थायामसंज्ञायाम् ।।१।३४ ॥ एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥ खमज्ञातिधनाख्यायाम् ।।१॥३५ ॥ ज्ञातिधनान्यवाचिनः खशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । खे । स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिधनवाचिनस्तु खाः । ज्ञातयोऽर्था वा ॥ अन्तरं बहिर्योगोपसंव्यानयोः। ।१॥३६॥ बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥ पूर्वादिभ्यो नवभ्यो वा ७१।१६ ॥ एभ्यो ङसिङ्योः सात्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः संख्यायां नित्यैकवचनान्तः ॥ न बहुव्रीहौ ।।१।२९ ॥ बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिके विग्रहवाक्य इव तत्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ ॥ यथोत्तरं मुनीनां प्रामाण्यम् ॥ संज्ञोपसर्जनीभूतास्तु न सर्वादयः । महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्य च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥ तृतीयासमासे ।१ ।१॥३०॥ अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासार्थवाक्येऽपि न । मासेन पूर्वाय ॥ द्वन्द्वे च ।।१॥३१॥ द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥ विभाषा जसि ।।१॥३२॥ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।।१।३३ ॥ एते जसः कार्य प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयः प्रत्ययः ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः।
१ खस्य पूर्वादिशब्दस्याभिधेयेन अर्थेनापेक्ष्यमाणस्यावधेर्नियमः। नियमेनावधिसापेक्षेऽर्थे वर्तमानतेत्यर्थः॥