________________
१८
सिद्धान्तकौमुद्याम् शेषं सर्ववत् ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् * ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्हणान्नेह । पटुजातीयाय । निर्जरः ॥ जराया जरसन्यतरस्याम् ७२।१०१॥ जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य च । अनेकालत्वात्सर्वादेशे प्राप्ते । निर्दिश्यमानस्यादेशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ। निर्जरसः । इनादीन् बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिषेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने निर्जरस्येत्येव रूपं खीकृतम् । एतच्च भाष्यविरुद्धम् ॥ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छसूप्रभृतिषु ।६।०६३ ॥ पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् , यूष, दोष , यकृत् , शकृत् , उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः। पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥ सुडनपुंसकस्य ।१।११४३.॥ सुट् प्रत्याहारः स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥ स्वादिष्वसर्वनामस्थाने ।१।४।१७ ॥ कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व पदसंज्ञं स्यात् ॥ यचि भम् ।१।४।१८॥ यकारादिष्वजादिषु च कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व भसंज्ञं स्यात् ॥ आकडारादेका संज्ञा ।।४।१॥ इत ऊर्ध्व कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दन्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥ भस्य ।६।४।१२९॥ अधिकारोऽयम् ॥ अल्लोपोऽनः।६।४। १३४ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपः स्यात् ॥ रषाभ्यां नो णः समानपदे ।८४।१॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे तु अव्यवाय इत्येवात्र णत्वम् । पूर्वत्रासिद्धीये न स्थानिवदिति तु इह नास्ति । तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् ॥ न लोपः प्रातिपदिकान्तस्य ।८।७॥ नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥ विभाषा डिन्श्योः ।६।४।१३६ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपो वा स्यात्
१ 'आस्नो वृकस्ये'त्यत्र वेदभाष्ये मुखपरत्वेन व्याख्यानात् । 'हव्या जुह्वान आसनि' इत्यादावपि आस्यशब्दस्यैव आसन्नादेशाच्च ।