________________
T
अजन्ताः पुंलिङ्गाः। ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्नितिसूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथा च । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन 'पदशिश्चरणोऽस्त्रियां', 'स्वान्वं हृन्मानसं मनः' इति च संगच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भवः आसन्यः । दोषशब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति संगच्छते । भुजबाहू' प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति । द्वयोरहोर्भवो व्यहः ॥ संख्याविसायपूर्वस्याहस्याऽहन्नन्यतरस्यां ङौ ।६।३। ११० ॥ संख्यादिपूर्वस्याहस्याऽहन्नादेशो वा स्यात् ङौ । व्यह्नि । यहनि । व्यह्ने । विगतमहळहः । व्यहि । व्यहनि । व्यहे । अहः सायः सायाह्नः । सायाहि । सायाहनि । सायहे ॥ ॥ इत्यदन्ताः ॥ ॥ विश्वपाः ॥ दीर्घाजसि च ।।१।१०५॥ दीर्घाजसि इचि च परे प्रथमयोः पूर्वसवर्णदी? न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि नादिचीत्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घ क्षतिर्नास्ति तथापि गौ? गौर्य इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् ॥ आतो धातोः ।६।४।१४०॥ आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । अलोऽन्त्यस्य । विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । उ वृद्धिः । हाहै । ङसिङसोर्दीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगविभागादधातोरप्याकारलोपः कचित् । क्त्वः । श्नः ॥ इत्यादन्ताः ॥ ॥ हरिः । प्रथमयोः पूर्वसवर्णः । हरी ॥ जसि च ७३३१०९॥ हखान्तस्याङ्गस्य गुणः स्याज्जसि परे । हरयः ॥ हस्खस्य गुणः।७३।१०८॥ हखस्य गुणः स्यात्संबुद्धौ । एङ्हखादिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥ शेषो ध्यसखि १॥४७॥ अनदीसंज्ञौ हखौ याविदुतौ तदन्तं सखिवर्ज घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थम् । हखौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥ आङो नाऽस्त्रियाम् ।७३।१२० ॥ घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासंज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥ घेर्डिति ।७३।१११ ॥ घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्टी । घेड़ितीति गुणे कृते ॥ ङसिङसोश्च ।६।१।११० ॥ एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥ अच घेः।७३।११९॥ इदुभ्यामुत्तरस्य डेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । होः। हरिषु । एवं श्रीपत्यमिरविकव्यादयः ॥ अनडू सौ ७११९३ ॥ सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्चेत्यन्तादेशः ॥ अलोन्त्यात्पूर्व उपधा ।।श६५ ॥ अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥ सर्वनामस्थाने चासंबुद्ध।।६।४८॥ नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥ अपृक्त एकालूप्रत्ययः ।।२।४१॥ एकाल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥ हलू