________________
सिद्धान्तकौमुद्याम् याब्भ्यो दीर्घात् सुतिस्यपृक्तं हलू ।६।१।६८॥ हलन्तात्परं दी? यौ ड्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल लुप्यते । हलङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखटः । सुतिसीति किम् । अमैत्सीत् । तिपा सह चरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल किम् । बिभेद । प्रथमहल किम् । राजा। नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥ सख्युरसंबुद्धौ ७११९२॥ सख्युरङ्गात्परं संबुद्धिवर्ज सर्वनामस्थानं णित्कार्यकृत् स्यात् ॥ अचो णिति ।।२।११५ ॥ निति णिति च परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥ ख्यत्यात्परस्य ।६।११११२॥ खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥ औत् ७।३।११८ ॥ इदुभ्यां परस्य डेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् । शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनलिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावादसखीति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् । ख्यत्यादित्युत्वं न । सुसखेः । सुसखौ इत्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्गित्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहानङ्गित्वे न भवतः । गोस्त्रियोरिति इखेन सखिशब्दस्य लाक्षणिकत्वात् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ॥ पतिः समास एव ।१।४८ ॥ पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥ बहुगणवतुडतिसंख्या ।१।१।२३ ॥ एते संख्यासंज्ञाः स्युः ॥ . डति च ।।१२५ ॥ डत्यन्ता संख्या षट्संज्ञा स्यात् ॥ प्रत्ययस्य लुकलुलुपः।१। श६१ ॥ लुक्श्लल शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥ षड्भ्यो लुक् ।। १॥२२॥ षड्भ्यः परयोजश्शसोर्लक् स्यात् ।। प्रत्ययलोपे प्रत्ययलक्षणम् ।१।१।६२॥ प्रत्यये लुप्तेऽपि तदाश्रितं कार्य स्यात् । इति जसि चेति गुणे प्राप्ते ॥ न लुमताङ्गस्य । शश६३॥ लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्य न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतिभ्यः । कतीनाम् । कतिषु । अस्मद्युप्मत्षसंज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥ त्रेस्त्रयः।७११५३ ॥ त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥ त्यदादीनामः ॥२।१०२ ॥ एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥ द्विपर्यन्तानामेवेष्टिः * ।।
१ सर्वाद्यन्तर्गणस्त्यदादिः।