________________
२१
अजन्ताः पुंलिङ्गः। द्वौ २। द्वाभ्याम् ३। द्वयोः २। द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वौ इत्यादि । औडुलोमिः । औडलोमी । बहुवचने तु उड्डुलोमाः ॥ लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः * ॥ बाह्वादीञोऽपवादः । औडलोमिम् । औडुलोमी। उडुलोमान् ॥ ॥ इतीदन्ताः ॥॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घाजसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः ॥ अमि पूर्वः ॥ वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् ३। वातप्रम्ये । वातप्रम्यः २। वातप्रम्योः २। वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्णदीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किव चेति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाच इति वक्ष्यमाणो यण् । प्रधीवत् । बयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घड्यन्तत्वाद्धल्ङ्याबिति सुलोपः ॥ यू ख्याख्यौ नदी ।१।४।३॥ ईदूदन्तौ नित्यस्त्रीलिङ्गी नदीसंज्ञौ स्तः ॥ प्रथमलिङ्गग्रहणं च * ॥ पूर्व स्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥ अम्बार्थनद्योहूंखः ।७३।१०७॥ अम्बार्थानां नद्यन्तानां च हवः स्यात् संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥ आण नद्याः ।७।३।११२॥ नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥ आटश्च ।६।१।९० ॥ आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥ डेराम् नद्यानीभ्यः ।७३।११६॥ नद्यन्तादाबन्तान्नीशब्दाच्च डेराम् स्यात् । इह परत्वादाटा नुड् बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अड्यन्तत्वान्न सुलोपः ॥ अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्किबन्ताद्वा कर्तरि विप् । हलङ्याबिति सुलोपः ॥ अचि धातुभ्रुवां वोरियडुवङौ ।। ४७७॥ नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोबू इत्यस्य चाङ्गस्येयकुवङौ स्तोऽजादौ प्रत्यये परे । डिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥ एरनेकाचोऽसंयोगपूवस्य ।।४।८२॥ धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यो । कुमार्यः । हे कुमारि । अमि असि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः २। कुमारीणाम् । कुमार्याम् । प्रधी । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । डेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । डेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियो । यवक्रियौ ॥ गतिकारकेतरपूर्वपदस्य यण नेष्यते * ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्ग