________________
सिद्धान्तकौमुद्याम् । संज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥ न भूसुधियोः ।।४।८५॥ एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखायमिच्छति सखीयति । ततः किम् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते । कौ लुप्तं न स्थानिवत् । एकदेशविकृतस्यानन्यतयाऽनणित्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धाविति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ। सुत्यौ । ख्यत्यादिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्यादित्युत्वम् । लन्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीयतेः . किम् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः शुप्किय इत्यादि ॥ ॥ इति ईदन्ताः॥॥ शंभुर्हरिवत् । एवं विष्णुवायुभान्यादयः ॥ तृज्वत्क्रोष्टुः ।।१।९५॥ क्रोष्टशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टशब्दः प्रयोक्तव्य इत्यर्थः ॥ ऋतो डिसर्वनामस्थानयोः ॥३॥११० ॥ ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥ ऋदुशनस्पुरुदंसोऽनेहसां च ।७।१। ९४ ॥ ऋदन्तानामुशनसादीनां चानङ्ग स्यादसंबुद्धौ सौ परे ॥ अमृन्तृच्खमनप्लनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्तृणाम् ।६।४।११॥ अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । (उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव) । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थसूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥ विभाषा तृतीयादिष्वचि ७७१।९७॥ अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥ ऋत उत् ।६।१११११ ॥ ऋदन्तात् ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥ रात्सस्य ।८।२।२४॥ रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टः । आमि परत्वात्तृज्वद्भावे प्राप्ते । नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन * ॥ क्रोष्ट्रनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शंभुवत् ॥ ॥ इत्युदन्ताः ॥॥ हूहूः । हूह्वौ । हूहः । हूहूम् । हूतौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्य विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः २। अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥ ओः सुपि ।६।४।८३॥ धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ सुपि । गतिकारकेतरपूर्वपदस्य यण् नेष्यते । खलप्वौ । खलप्व इत्यादि । एवं मुल्वादयः । अनेकाचः किम् । लूः । लुवौ । लुवः । धात्ववयवेति किम् । उल्लू: । उल्लौ । उल्लः । असंयोगपूर्वस्य किम् । कटगुवौ । कटप्नुवः । गतीत्यादि किम् ।