________________
१४
सिद्धान्तकौमुद्याम् विसर्गोपध्मानीयौ ॥ रो रि ।।३।१४ ॥ रेफस्य रेफे परे लोपः स्यात् ॥ ठूलोपे पूर्वस्य दीर्घोऽणः६।३।१११॥ ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रो रीति लोपे च प्राप्ते ॥ विप्रतिषेधे परं कार्यम् ।।४।२॥ तुल्यबलविरोधे परं कार्य स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।६।१।१३२॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि म तु नसमासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनन्समासे किम् । असः शिवः । हलि किम् । एषोऽत्र ॥ सोऽचि लोपे चेत्पादपूरणम् ।६।१।१३४ ॥ सस् इत्यस्य सोर्लोपः स्यादचि । पादश्चेल्लोपे सत्येव पूर्येत । सेमामविढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छोकपादोऽपीत्यपरे । सैषं दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एवमुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलमिति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥ इति खादिसंधिः ॥ __अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।।२।४५ ॥ धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वाऽर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥ कृतद्धितसमासाश्च ।।२।४६॥ कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र संघाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥ प्रत्ययः ।३।१।१ ॥ आपञ्चमपरिसमाप्तेरधिकारोऽयम् ॥ परश्च ।।१।२॥ अयमपि तथा ॥ ड्याप्रातिपदिकात्।४।१।१।। ड्यन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमित्येव सिद्धे ड्याग्रहणं ड्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात् ड्याब्भ्यां प्राङ् मा भूदित्येवमर्थम् ॥ वौजसमौट्छष्टाभ्यां भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यसूङसोसाम्ङयोस्सुप् ।४।१॥२॥ ड्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥ विभक्तिश्च ।। ४११०४॥ सुप्तिौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥ सुपः।१।४।१०३ ॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥ येकयोर्दिवचनैकवचने ।१।४।२२ ॥ द्वित्वैकत्वयोरेते स्तः ॥ बहुषु बहुवचनम् ।१।४।२१ ॥ बहुत्वे एतत्स्यात् । रुत्वविसौ । रामः ॥ सरूपाणामेकशेष एकविभक्ती ।।२।६४ ॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥ प्रथमयोः पूर्वसवर्णः ॥
१ सैष दाशरथी रामः सैष भीमो महाबलः । सैष कर्णो महात्यागी सैष राजा युधिष्ठिरः॥ २ अन्ये लुप्यन्ते । यः शिष्यते स लुप्यमानार्थामिधायी ॥