Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
वादिसंधिः।
स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुतरपदस्थस्येत्येव । परमशिरःपदम् ॥ कस्कादिषु च ॥ भास्करः ॥ इति विसर्गसंधिः ॥
वौजसमौडिति सुप्रत्यये शिवस् अर्च्य इति स्थिते ॥ ससजुषो रुःथा।६६॥ पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः । अतो रोरप्लुतादप्लुते।६।१।११३॥ अप्लुतादतः परस्य रोरुः स्यादप्लुतेति । भोभगोअघो इति प्राप्तस्य यत्वस्याऽपवादः । उत्वं प्रति रुत्वस्याऽसिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥ प्रथमयोः पूर्वसवर्णः ।६।१।१०२॥ अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् इति प्राप्ते ॥ नादिचि ।।१।१०४॥ अवर्णादिचि परे न पूर्वसवर्णदीर्घः ॥ आद्गुणः ॥ एङः पदान्तादति ॥ शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्वआगन्ता । अप्लुतात्किम् । एहि सुस्रोता३ अत्र नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्य दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ३ मिदत्त । गुरोरनृत इति प्लुतः ॥ हशि च ।६।१।११४ ॥ अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥ भोभगोअघोअपू. वस्य योऽशि ८३॥१७॥ एतत्पूर्वस्य रोर्याजेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य ॥ देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥ व्योलघुप्रयत्नतरः शाकटायनस्य ८॥३॥१८॥ पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥
ओतो गाय॑स्य ।।३।२०॥ ओकारात्परस्य पदान्तस्याऽलघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्म्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥ उत्रि च पदे ।८।३।२१॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उनि पदे । स उ एकामिः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उमिति ग्रहीष्यते तद्युत्तरार्थं पदग्रहणम् ॥ हलि सर्वेषाम् ॥२२॥ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥ रोऽसुपि ।८।२।६९ ॥ अह्रो रेफादेशः स्यान्न तु सुपि । रोरपवादः अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् * ॥ अहोरूपम् । गतमहो रात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । अहरादीनां पत्यादिषु वा रेफः * ॥ विसर्गापवादः । अहर्पतिः । गीपतिः । धूर्पतिः । पक्षे
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 532