Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 13
________________ हलसंधिः । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् । ओष्णम् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ ओत् ।।१।१५॥ ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥ संबुद्धौ शाकल्यस्येतावनार्षे ।।१।१६॥ संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ उञः।१।१।१७॥ उञ इतौ वा प्रागुक्तम् । उ इति । विति । ॐ।१।१।१८॥ उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥ मय उओ वो वा ।८।३।३३ ॥ मयः परस्य उजो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वस्यासिद्धत्वान्नानुखारः ॥ ईदूतौ च सप्तम्यर्थे ।१ ।१।१९ ॥ सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुगिति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावान्तरोपसंक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वः ॥ अणोऽप्रगृह्यस्यानुनासिकः ।।४।५७ ॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अमी ॥ इत्यच्संधिः ॥ स्तोः श्रुना श्चुः ।।४।४०॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शाझिञ्जय ॥ शात् ।।४।४४॥ शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥ ष्टना ष्टुः ।८४।४१ ॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥ न पदान्ताहोरनाम् ८॥४॥४२॥ अनामिति लुप्तषष्ठीकं पदम् । पदान्तादृवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ अनाम्नवतिनगरीणामिति वाच्यम् * ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ तोः षि ४।४३ ॥ तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः ॥ झलां जशोऽन्ते ।८।२।३९॥ वागीशः । चिद्रूपम् ॥ यरोऽनुनासिकेऽनुनासिको वा ।।४।४५॥ यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतमुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् * ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥ तोलि ४६०॥ तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाल्लिखति । नकारस्याऽनुनासिको लकारः ॥ उदः स्थास्तम्भोः पूर्वस्य ।।४।६१॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । आदेः परस्य । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः । तस्य झरो झरीति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि चेति चर्वम् । चत्वं प्रति थकारस्याऽसिद्धत्वात् ॥ झयो होऽन्यतरस्याम् ।।४६२॥ झयः परस्य हस्य १ स्तोरिति समहारद्वन्द्वः । सौत्रं पुंस्त्वम् । अत्र स्थान्यादेशयोर्यथासंख्यम् । निमित्तकार्यिणोस्तु न । तथा सति शकारयोगे सकारस्य चवर्गयोगे तवर्गस्य इत्यर्थे शादिति निषेधस्य वैयर्थ्य स्यात् ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 532