________________
हलसंधिः । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् । ओष्णम् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ ओत् ।।१।१५॥ ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥ संबुद्धौ शाकल्यस्येतावनार्षे ।।१।१६॥ संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ उञः।१।१।१७॥ उञ इतौ वा प्रागुक्तम् । उ इति । विति । ॐ।१।१।१८॥ उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥ मय उओ वो वा ।८।३।३३ ॥ मयः परस्य उजो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वस्यासिद्धत्वान्नानुखारः ॥ ईदूतौ च सप्तम्यर्थे ।१ ।१।१९ ॥ सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुगिति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावान्तरोपसंक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वः ॥ अणोऽप्रगृह्यस्यानुनासिकः ।।४।५७ ॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अमी ॥ इत्यच्संधिः ॥
स्तोः श्रुना श्चुः ।।४।४०॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शाझिञ्जय ॥ शात् ।।४।४४॥ शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥ ष्टना ष्टुः ।८४।४१ ॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥ न पदान्ताहोरनाम्
८॥४॥४२॥ अनामिति लुप्तषष्ठीकं पदम् । पदान्तादृवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ अनाम्नवतिनगरीणामिति वाच्यम् * ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ तोः षि ४।४३ ॥ तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः ॥ झलां जशोऽन्ते ।८।२।३९॥ वागीशः । चिद्रूपम् ॥ यरोऽनुनासिकेऽनुनासिको वा ।।४।४५॥ यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतमुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् * ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥ तोलि ४६०॥ तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाल्लिखति । नकारस्याऽनुनासिको लकारः ॥ उदः स्थास्तम्भोः पूर्वस्य ।।४।६१॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । आदेः परस्य । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः । तस्य झरो झरीति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि चेति चर्वम् । चत्वं प्रति थकारस्याऽसिद्धत्वात् ॥ झयो होऽन्यतरस्याम् ।।४६२॥ झयः परस्य हस्य
१ स्तोरिति समहारद्वन्द्वः । सौत्रं पुंस्त्वम् । अत्र स्थान्यादेशयोर्यथासंख्यम् । निमित्तकार्यिणोस्तु न । तथा सति शकारयोगे सकारस्य चवर्गयोगे तवर्गस्य इत्यर्थे शादिति निषेधस्य वैयर्थ्य स्यात् ॥