________________
सिद्धान्तकौमुद्याम् पूर्वसवर्णों वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्धरिः । वाग्हरिः ॥ शश्छोऽटि ।८।४।६३ ॥ पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥ खरि च ।८।४।५५॥ खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ छत्वममीति वाच्यम् * ॥ तच् श्लोकेन । तच्छोकेन । अमि किम् । वाक् थ्योतति ॥ मोऽनुस्वारः ।।३।२३ ॥ मान्तस्य पदस्यानुखारः स्याद्धलि । अलोऽन्त्यस्य । हरिं वन्दे । पदस्येति किम् । गम्यते ॥ नचापदान्तस्य झलि ।।३।२४ ॥ नस्य मस्य चापदान्तस्य झल्यनुस्खारः स्यात् । यशांसि । आक्रस्यते । झलि किम् । मन्यते ॥ अनुस्वारस्य ययि परसवर्णः ।८४।५८॥ स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुखारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥ वा पदान्तस्य ।८४।५९ ॥ पदान्तस्याऽनुखारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वं करोषि । सँय्यन्ता । संयन्ता । संवत्सरः । संवत्सरः । यल्लोकम् । यलोकम् । अत्रानुखारस्य पक्षेऽनुनासिका यवलाः ।। मो राजि समः कौ।।३।२५॥ क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥ हे मपरे वा ८।३।२६ ॥ मपरे हकारे परे मस्य म एव स्याद्वा । हल हल चलने । किम् मलयति । किं मलयति ॥ यवलपरे यवला वेति वक्तव्यम् * ॥ यथासंख्यमनुदेशः समानाम् ।।३।१०॥ समसंबन्धी विधिर्यथासंख्यं स्यात् । किय॒द्यः । किंह्यः । किवँह्वलयति । किंह्वलयति । किाहादयति । किंह्लादयति ॥ नपरे नः ।३।२७ ॥ नपरे हकारे मस्य नः स्याद्वा । किं हुते । किन्ह्यते ॥ श्रोः कुक टुक् शरि ८।३।२८ ॥ कारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाजश्त्वं न ॥ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् * ॥ प्राषष्ठः । प्राङ्क्षष्ठः । प्राषष्ठः । सुगक्षष्ठः । सुगण
षष्ठः । सुगण्षष्ठः ॥ डः सि धुट् ।८।३।२९॥ डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥ नश्च ।८३।३०॥ नकारान्तात्सस्य धुड्डा । सन्त्सः । सन्सः ॥ शि तुक।८। ३॥३१॥ नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटीति छत्वविकल्पः । पक्षे झरो झरीति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्शंभुः । सञ्च्शंभुः । अछौ अचछा अचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥ ङमो हवादचि ङमुनित्यम् 1८३३३२॥ हखात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥ समः सुटि ८॥३॥५॥ समो रुः स्यात् सुटि । अलोऽन्त्यस्य ॥ अत्रानुनासिका पूर्वस्य तु वा ।।३।२ ॥ अत्र रुपकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥ अनुनासिकात्परोऽनुखारः ८३४ ॥ अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुखारागमः स्यात् । खरवसानयोर्विसर्जनीयः ॥ विसर्जनीयस्य सः।८३।३४ ॥ खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरीति पाक्षिके विसर्गे