________________
हलसंधिः । प्राप्ते ॥ संपुकानां सो वक्तव्यः * ॥ संस्स्कर्ता । संस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् * ॥ लोपस्यापि रुपकरणस्थत्वादनुखारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्रानचि चेति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरि शर्षु च पाठस्योपसंख्यातत्वेनानुखारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां शरः खय इति कद्वित्वे षट् । अनुखारवतामनुखारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे च एकतं द्वितं त्रितमिति चतुःपञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥ पुमः खय्यम्परे ।८।३।६ ॥ अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षेऽप्रत्ययस्येति षत्वपर्युदासात् कxपयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुकानामिति सः। (स्कोकिलः । पुंस्कोकिलः । (स्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः । ख्याञादेशे न । पुख्यानम् ॥ नश्छव्यप्रशान् ।।३ ७॥ अम्परे छवि नकारान्तस्य पदस्य रुः स्यात् न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्रुत्वम् । शाङ्गिश्छिन्धि । शाङ्गिश्छिन्धि । चस्त्रिायख । चक्रिस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥ नृन्पे ।८।३।१०॥ नृनित्यस्य रुः स्याद्वा पकारे परे ॥ कुप्वोः ४क पौ च ।।३॥३७॥ कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाजिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स इत्यस्यापवादोऽयम् । न तु शपरे विसर्जनीय इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । Dxपाहि । →xपाहि । नॅः पाहि । ः पाहि । नृन्पाहि ॥ कानानेडिते ।८।३।१२॥ कान्नकारस्य रुः स्यादामेडिते परे । संपुंकानामिति सः । यद्वा ॥ कस्कादिषु च ।।३।४८॥ एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । कर्पयोरपवाद इति सः । काँस्कान् । कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥ संहितायाम् ।६।१७२॥ इत्यधिकृत्य ॥ छे च ।।१ ।७३ ॥ हखस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाजश्त्वेन दः । ततश्चर्वस्यासिद्धत्वात्पूर्व श्चुत्वेन जः । तस्य चर्वेन चः । श्चुत्वस्यासिद्धत्वाच्चोः कुरिति कुत्वं न । खच्छाया । शिवच्छाया ॥ आङ्माङोश्च ।६।११७४ ॥ एतयोश्छे परे तुक् स्यात् । पदान्ताद्वेति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥ दीर्घात् ।६।१।७५ ॥ दीर्घाच्छे परे तुक् स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छायेति ज्ञापकात् । चेच्छिद्यते ॥ पदान्ताद्वा ।६।११७६ ॥ दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥ इति हलूसंधिः ॥
१ येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति । नदयस्य प्रकृतार्थदाळबोधकत्वम् ।
२ यदि छस्य तुकू स्यात् तर्हि छस्य चर्वेन चद्वयं स्यात् । सन्निपातपरिभाषया चाभावे तु छकारोपरि चकारः श्रूयेत ॥