________________
सिद्धान्तकौमुद्यम्
क
विसर्जनीयस्य सः ।८।३।३४ ॥ विष्णुस्त्राता || शर्परे विसर्जनीयः | ८|३|३५ ॥ शर्परे खरि विसर्जनीयस्य विसर्जनीयो न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं एवं जिह्वामूलीयश्च न || वा शरि |८|३|३६|| शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते । खर्परे शरि वा विसर्गलोपो वक्तव्यः * ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः कौ च ॥ कः करोति । कः करोति । कX खनति । कः खनति । पचति । कः पचति । क फलति । कः फलति ॥ सोऽपदादौ | ८ | ३ | ३८ || विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥ पाशकल्पककाम्येष्विति वाच्यम् * ॥ पयस्पाशम् | यशस्कल्पम् | यशस्कम् | यशस्काम्यति ॥ अनव्ययस्येति वाच्यम् ॥ प्रातःकल्पम् ॥ काम्ये रोरेवेति वाच्यम् * ॥ नेह । गीः काम्यति ॥ इणः षः |८| ३ | ३९ ॥ इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥ नमस्पुरसोर्गत्योः | ८|३|४० ॥ गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात् कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययमिति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः ॥ इदुदुपधस्य चाप्रत्ययस्य |८|३|४१ ॥ इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अभिः करोति । वायुः करोति । एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा | मुहुसः प्रतिषेधः * ॥ मुहुःकामा ॥ तिरसोऽन्यतरस्याम् |८|३|४२ ॥ तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरःकर्ता ॥ द्वित्रिचतुरिति कृत्वोर्थे |८| ३ | ४३ ॥ कृत्वोर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यादि । कृत्वोर्थे किम् । चतुष्कपालः ॥ इसुसोः सामर्थ्ये |८|३|४४ ॥ एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिः करोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । साम किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥ नित्यं समासेऽनुत्तरपदस्थस्य |८|३|४५ ॥ इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य |८|३|४६ || अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । ‘अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयः सहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । खः कामः । समासे किम् । यशः करोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥ अधः शिरसी पदे |८|३|४७ ॥ एतयोर्विसर्गस्य सादेशः
१२