________________
सिद्धान्तकौमुद्याम् कृष्णा ३ अत्र गौश्वरति । हरी एतौ । नित्यमिति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यादिकोऽसवर्ण इति इखसमुच्चितो मा भूत् ॥ इकोऽसवणे शाकल्यस्य हस्खश्च । ६।१।१२७ ॥ पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युईखश्च वा । अत्र हस्त्रविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितम् । चक्रि अत्र । चत्यत्र । पदान्ता इति किम् । गौ? ॥ न समासे * ॥ वाप्यश्वः ॥ सिति च * ॥ पार्श्वम् ॥ ऋत्यक: ।६।११२८ ॥ ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ता इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् । सप्तर्षीणाम् ॥ वाक्यस्य टेः प्लुत उदात्तः ।२।८२ ॥ इत्यधिकृत्य ॥ प्रत्यभिवादेऽशूद्रे ।।८३ ॥ अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्ता ३ ॥ स्त्रियां न * ॥ अभिवादये गार्म्यहम् ॥ भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ॥ भो राजन्यविशां वेति वाच्यम् * ॥ आयुष्मानेघि भो३: । आयुष्मानेधीन्द्रवर्म३न् । आयुष्मानेधीन्द्रपालिता ३ ॥ दूराद्भूते च ।।२।८४ ॥ दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्ता ३ ॥ हैहेप्रयोगे हैहयोः ।।२।८५ ॥ एतयोः प्रयोगे दूराद्भुते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे ३ राम । राम है ३ ॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।।२।८६॥ दूराद्भूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे ३ वदत्त । देवद ३ त । देवदत्ता ३ । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्णा ३ । एकैकग्रहणं पर्यायार्थम् । इह प्राचामिति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥ अप्लुतवदुपस्थिते ।६।९।१२९ ॥ उपस्थितोऽनार्ष इतिशब्दस्तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्य यणादिकं करोतीत्यर्थः । सुश्लोका ३ इति । सुश्लोकेति । वत्किम् । अप्लत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथाच प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्नी ३ इति ॥ ई ३ चाक्रवर्मणस्य । ६१०१३०॥ई ३ प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही ३ इति । चिनुहीति । चिनुही ३ इदम् । चिनुहीदम् । उभयत्रविभाषेयम् ॥ ईदूदेविवचनं प्रगृह्यम् ।।१।११॥ ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥ अदसोमात्।।१।१२॥ अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् । अमुकेऽत्र । असति माद्रहणे एकारोऽप्यनुवर्तेत ॥ शे ।।१।१३ ॥ अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥ निपात एकाजनाङ् ।१।१।१४ ॥ एकोऽन्निपात आवर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे ।
१ मणीबोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । इत्यादौ ॥