Book Title: Vaiyakaran Siddhant Kaumudi Author(s): Vasudev Lakshman Shastri Publisher: Pandurang Jawaji View full book textPage 6
________________ २ सिद्धान्तकौमुद्याम् सिकावचनोऽनुनासिकः ।।१।८॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः ॥ लवर्णस्य द्वादश । तस्य दीर्घाभावात् ॥ एचामपि द्वादश । तेषां हखाभावात् ॥ तुल्यास्यप्रयत्नं सवर्णम् । ११॥९॥ ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतहयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् ॥ अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । · ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुखारस्य ॥ इति स्थानानि ॥ ॥ प्रयत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा । स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषस्पृष्टमन्तःस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रखस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथा हि ॥ अ अा४।६८॥ इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं संपूर्णा प्रत्यसिद्धत्वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथाच सूत्रम् ॥ पूर्वत्रासिद्धम् ।।२।१॥ अधिकारोऽयम् । तेन सपादसप्ताध्यायी प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिद्धं स्यात् ॥ बाह्यप्रयत्नस्त्वेकादशधा-विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः खरितश्चेति ॥ खयां यमाः खयः ४क पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्वाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्नीः । चख्नतुः । अग्निः । घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च ॥ वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् ॥ कादयो मावसानाः स्पर्शाः । यरलवा अन्तःस्थाः । शषसहा ऊष्माणः । अचः खराः । ४क पाविति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुखारविसर्गौ ॥ इति स्थानप्रयत्नविवेकः॥ ऋलवर्णयोर्मिथः सावर्ण्य वाच्यम् * ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लकारसकारयोश्च मिथः सावर्ण्य प्राप्ते ॥ नाऽऽज्झलौ ।।१।१०॥ अकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णों न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रवलादच्वं स्यात् । तथा हि ॥ अणुदित्सवर्णस्य चाऽप्रत्ययः । १ अत्र विसर्जनीयपदेनाकारात्परो विसर्जनीयो विवक्षितः । इकारादिभ्यः परस्तु पूर्वाच्चस्थानभाक् । "अयोगवाहा विज्ञेया आश्रयस्थानभागिनः" इति पाणिनीयशिक्षावाक्यात् । यथा इकारात्परस्य तालुस्थानमुकारात्परस्यौष्ठावित्यादि ॥ २ "अनुखारयमानां च नासिकास्थानमुच्यते" इति पाणिनीयविक्षावाक्यात् ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 532