Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 8
________________ सिद्धान्तकौमुद्याम् अनिर्धारितसंबन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥ स्थानेऽन्तरतमः । ।।१५० ॥ प्रसङ्गे सति सदृशतम आदेशः स्यात् ॥ यत्रानेकविधमान्तयं तत्र स्थानत आन्तर्य बलीयः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ।१।१॥६६॥ सप्तमीनिर्देशेन विधीयमानं कार्य वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥ तस्मादित्युत्तरस्य ।।१।६७॥ पञ्चमीनिर्देशेन क्रियमाणं कार्य वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥ अलोऽन्त्यस्य । शश५२॥ षष्ठीनिर्दिष्टोऽन्त्यस्यादेशः स्यात् ॥ ङिच्च ।१।११५३ ॥ अयमप्यन्त्यस्यैव स्यात् । सर्वस्येत्यस्यापवादः ॥ आदेः परस्य ।।११५४ ॥ परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्येत्यस्यापवादः ॥ अनेकाल शित्सर्वस्य ।।११५५॥ स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औशित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते ॥ स्वरितेनाधिकारः।१।३।११॥ खरितत्वयुक्तं शब्दखरूपमधिकृतं बोध्यम् ॥ परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ अॅसिद्धं बहिरङ्गमन्तरङ्गे ॥ अकृतव्यूहाः पाणिनीयाः । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्य न कुर्वन्तीत्यर्थः ॥ इति परिभाषाप्रकरणम् ॥ इको यणचि ।।११७७॥ इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥ अनचि च । ४४७॥ अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥ स्थानिवदादेशोऽनल्विधौ ।१।११५६ ॥ आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्यानचि चेति द्वित्वनिषेधो न शङ्कयोऽनल्विधाविति तन्निषेधात् ॥ अचः परस्मिन्पूर्वविधौ ।१११५७ ॥ अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये ॥ इति स्थानिवद्भावे प्राप्ते ॥ न पदान्तद्विवचनवरेयलोपखरसवर्णानुवारदीर्घजश्चर्विधिषु ।।१५८ ॥ पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥ झलां जश झशि ।४।५३ ॥ स्पष्टम् । इति धकारस्य दकारः ॥ अदर्शनं लोपः।।६०॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥ संयोगान्तस्य लोपः। ८।२।२३ ॥ संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥ यणः प्रतिषेधो वाच्यः * ॥ यणो मयो द्वे वाच्ये * ॥ मय इति पञ्चमी यण इति षष्ठीति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्धयुपास्यः । मवरिः । धात्रंश । लाकृतिः ॥ नादिन्याक्रोशे पुत्रस्य ।।४।४८॥ पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्त्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ १ अन्तरले कार्ये कर्तव्ये बहिरङ्गमसिद्धं स्यात् ॥२ न कृतो विशिष्ट ऊहो निश्चयः शास्त्रप्रवृत्तिरूपो यैः ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 532