Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 6 7 8 Author(s): Motichand Girdharlal Kapadia Publisher: Jain Dharm Prasarak Sabha View full book textPage 4
________________ Jain Education International भो भव्याः ! इदं संसारिजीवचरितमनुभवागमसिद्धमवबुध्यध्वं अवबोधानुरूपं चाचरत, विरहयत कषायान्, स्थगयताश्रवद्वाराणि, निराकुरुतेन्द्रियगणं, दलयत सकलं मनोमलजालं, पोषयत सद्भूतगुणगणं, मुञ्चत भवप्रपञ्चं, यात तूर्ण शिवालयं येन यूयमपि सुमतयो भव्यपुरुषा भवथ । अथ नास्ति भवतां तादृशी लघुकर्मता ततो यथा सुललिता भूयो भूयः प्रचोदिता सप्रणयं मुहुर्मुहुर्निर्भर्सिता बहुविधमुपालब्धा पुनः पुनः स्मारिता सती गुरुकर्मिकापि प्रतिबुद्धा तथा बुध्यध्वं केवलं तथा प्रतिबोध्यमाना अगृहितसंकेता भविष्यथ यूयं गततालुशोषका गुरूणाम् तथापि गुरुभिः प्रतिबोधनीया एव युष्माभिरपि प्रतिबोद्धव्यमेव । यथा स्वदुश्चरितपश्चात्तापेन सद्भूतगुणपक्षपातसारो निखिलकर्म मलविलयकारी सदागमबहुमानस्तस्याः सुललितायाः प्रतिबोधकारणं संपन्नः तथा भवद्भिरपि तथैव स विधेयो येन संपद्यते भवतामपि विशिष्टस्तत्वावबोधः શ્રીસિદ્ધાંËગણિ अष्टम प्रस्ताव ( यो अवतरण पृ. २०७७ ). આ ગ્રંથ શ્રી મુંબઈમાં નં. ૨૬-૨૮ કોલભાટ લેન નિર્ણયસાગર પ્રેસમાં રામચંદ્ર ચેશૂ શેડગેએ મુદ્રિત કર્યો અને શ્રી જૈન ધર્મ પ્રસારક સભા (ભાવનગર)ના પ્રમુખ શેઠ કુંવરજી આણંદ્રજીએ प्रसिद्ध अय. For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 676