Book Title: Tulsi Prajna 1992 07
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
(ग) प्रवचनसारोद्धार पत्र ४३०- (मृत्त पुरीसाण विप्पुसो वावि - मूत्रपुरीषयोविप्रुषः - अवयवा इह विप्रुडुच्यते । 'विप्पुसो वाऽवि' त्ति पाठस्तु ग्रन्थानरेष्वदृष्टत्वादुपेक्षितः अथ चावश्यमेतद्व्याख्यानेन प्रयोजनं तदेत्थं व्याख्येयं - - वा शब्दः समुच्चये अपि शब्द एवकारार्थो भिन्नक्रम श्च, ततो मूत्रपुरीषयोरेवायवा इह विप्रुडुच्यते इति अन्ये तु भाषन्ते - विडिति विष्ठा पत्ति प्रश्रवणं मूत्रं ।
८-९ (क) आ० चूर्णि पत्र ६८ - खेलजल्ला पसिद्धा, तेऽवि एवं चैव ओसहिसामत्थजुत्ता कस्सति तवरिद्धिसंपन्नस्स भवंति त्ति ।
( ख ) आ० उपोद्घात पत्र ७७ - खेलः श्लेष्मा औषधिर्यस्य स तथा, तथा जल्लो - मलः, स औषधिर्यस्य स तथा सुगन्धाश्चैते भवन्ति विडादयस्तलब्धिमतां । विडादिभिरपि तल्लब्धिमन्तो यदात्मानं परं वा रोगापनयनबुद्धया परामृशन्ति तदा तद्रोगापगमः ।
(ग) प्रवचनसारोद्धार पत्र ४३० – खेलः श्लेष्मा जल्लो - मलः कर्णवदननासिका नयनजिह्वासमुद्भवः शरीरसम्भवश्च तो खेलजल्लो यत्प्रभावतः सर्वरोगोपहारको सुरभी च भवतः साक्रम्रोण खेलौषधि जल्लोषधिश्च ।
१०. ( क ) आ० चूर्णि पत्र ६८ - संभिन्नसोयरिद्धी नाम जो एगतरेण वि सरीरदेसेण पंच वि इंदियविसए उवलभति सो संभिन्नसोय त्ति भन्नति । (ख) आ० चूर्णि पत्र ७० - संभिन्नसोतो णाम जति बारसजोयणचक्कवट्टि - खंधावारे जमगसमगं बोल्लेज्जा सव्वेसि पत्तेयं पत्तेयं जाणति, एगेण वा इंदिणं पंच वि इंदियत्थे उवलभति, अहवा सव्वे हि अंगोवंगे हि, अहवा चक्कवट्टिसंधावारे सव्वतराणं विसेसं उवलभति, एस संभिन्नसोओ भन्नति ।
१३८
( ग ) आ० उपद्धात पत्र ७७ - संभिन्न सोय' इति यः सर्वैरपि शरीरदेशः शृणोति स सम्भिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयैर्यस्य स सम्मिन्नश्रोता - एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छति स सम्भिन्न श्रोता इत्यर्थः, अथवा श्रोतांसि-नि- इन्द्रियाणि सम्भिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुः कार्यकारित्वात् चक्षुरूपतामापन्नं चक्षुरपि श्रोत्रकार्य - कारित्वात् तद्रूपतामापन्नमित्येवं सम्भिन्नानि यस्य परस्परमिन्द्रियाणि
सम्भिन्नश्रोता इति भावः, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपत् ब्रुवाणस्य तत्तूर्यसङ्घातस्य वा युगपदास्फाल्यमानस्य सम्भिन्नान्-लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्खकाहलाभेरीमाणकढक्कादितूर्य समुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स सम्भिन्नश्रोता, उक्तं च
जो सुइ सव्वतो सुणइ सव्वविसए य सव्व सोएहि । सुइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥
Jain Education International
For Private & Personal Use Only
तुलसी प्रज्ञा
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154