Book Title: Tulsi Prajna 1992 07
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 70
________________ चाभिगृह्यते, अत एवातिशयने मत्वर्थीयोऽयं, यथा रूपवती कन्येत्यत्र, ततोऽतिशायिगमनागमनल ब्धिसम्पन्नाः चारणाः, ते च द्विभेदाः-जङ्घाचारणा विद्याचारणाश्च, तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनागमनविषयलब्धिसम्पन्नास्ते . जङ्घाचारणाः, ये पुनविद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणा नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति, विद्याचारणास्त्वेवमेव, जङ्घाचारणश्च रुचकवरद्वीपं गच्छन् एकनवोत्पातेन गच्छति. प्रतिनिविर्तमानस्तु प्रथमेनोत्पातेन नन्दीश्वरमायाति, द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरं जिगमिषुस्तहि प्रथमेन वोत्पातेन पण्डकवनमभिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति, द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रतिशयप्रभावतो भवति, ततो लब्ध्युपजीवेन औत्सुक्यभावतः प्रमाद सम्भवाच्चारित्रातिशय निबन्धना लब्धिरपि हीयते, ततो प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वर थानमायाति, विद्याचारणाः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छन्ति, द्वितीयेन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि वन्दते, ततः प्रतिनिवर्तमानस्त्वेकेन वोस्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति, द्वितीयेन पण्डकवनं, तत्र चैत्यानि वन्दित्वा ततः प्रतिनिवर्तमान एकेनवोत्पातेन स्वस्थानमायाति, विद्याचारणो हि विद्यावशाद् भवति, विद्या च परिशील्यमाना स्फुटा स्फुटत रोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनैवोत्पातेन स्वस्थानमायाति । (ख) आ० चू० पत्र ६९-एत्थ चारणलद्धी णाम दुविहा चारणा भवंति-जंघा चारणा य विज्जाचारणा य, तत्थ जंघाचारणलद्धिसंपन्नो अणगारो लूतापुडकतंतुमेत्ताव णीसं काऊण गच्छति, विज्जाचारणलद्धीओ पुण विज्जातिसयसामत्थजुत्ताए पुविदेह अव र विदेहादीणि खेत्ताणि अप्पेण कालेण आगासेण गच्छति त्ति । (क) आ० चणि पत्र ६९-तत्ण आसीविसो लद्धीणाम आसीविसो विध कुवितो जो देहविणिवायसामत्थजुत्तो सो आसीविसलद्धीओ भन्नति । (ख) आ० उपोद्घात पत्र ७८---'आसीविस' इति, आस्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः ....."एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्यां क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः। (ग) प्रवचनसारोद्धार पत्र ४३१-आश्यो-दंष्ट्रास्तासु गतं-स्थितं महद् विषं येषां भवति ते आशीविषाः, ते च द्विभेदाः-कर्मभेदेन जातिभेदेन च । तत्र कर्मभेदेन पंचेन्द्रियतिर्यग्योनयो मनुष्याः देवाश्च सहस्रारान्ता इत्यनेकविधाः, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविष १४० तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154