Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 27
________________ त्रिभुवन चरित्र // 25 // मार्या भोजनादिभिः संतोषं प्रापयामास. अथ स त्रिजुवनसिंदकुमारोऽपि काष्टालंबनेन समुद्रतटे प्राप्तः, स्वल्पवस्तुयुतः खिनश्च शनैः शनैरग्रे चलितः. इतस्तेनैकं शून्यं नगरं दृष्टं, एवं विधं भयंकरं तन्नगरं विलोक्य तेन चिंतितमहो देवविलसितं! यतः-ये वर्धिताः करिकपोलमदेषु मुंगाः / प्रोत्फुल्लपंकजरजःसुरभीकृतांगाः // ते सांप्रतं विधिवशाजमयंति कालं / निंबेषु चार्ककुसुमेषु च दैवयोगात् // 1 // अहोऽस्मिन् शून्यनगरप्रवेशनं नूनं जयंकर, परं मया त्वधुना तत्र प्रवेशाय न नेतव्यं, यतः-तावनयश्च नेतव्यं / यावनयमनागतं॥थागतं तु जयं दृष्ट्रा / प्रहर्तव्यमशंकितैः // 1 // इति साहसं विधाय दृढमनास्तन्नगरविलोकनार्थ स तन्मध्ये प्राप्तः. अग्रे चलता च तेन महदाश्चर्यकरं राजजवनं दृष्टं. तन्मध्यप्रविष्टेन तेन दोलोपरि दोलायमाना, दिव्यरूपा, तमिदिव जासुरा, दिव्यानरणभूषितांगी सुरकुमारी. समानैका कन्या दृष्टा, तां दृष्ट्वा चमत्कृतोऽसौ निजमानसे चिंतयामास-किमेषामरनारी वा। किन्नरी रूपशालिनी / पातालकन्यका किंवा / मानवी दिव्यरूपिणी ॥१॥इति विचिंत्य स हारे एव स्थितः, इतस्तया कन्यया तत्सन्मुखं विलोकितं; चिंतितं चादो कोऽयमत्र

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52