Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 7
________________ चीनदेशस्थो हुएनसंगः ६२९ ऐशवीयसंवत्सरे भारतभ्रमणार्थ समागतः स्थितश्च ६४५ पर्यतं, तेन खप्रवासवर्णने लिखितं-"अधुनातनसमये व्याकरणशास्त्रपांडित्यविषये भर्तृहरिरेव प्रसिद्धः" । अनेन ज्ञायते यद्विद्यानंदी ६५० ऐशवीयसंवत्सरात्पश्चात् प्रादुर्बभूव । अष्टसहस्रीमध्ये प्रसिद्धवेदांतविशारदकुमारिलभट्टस्य "भावना यदी" त्यादिपद्ययोर्भट्टशब्देनोल्लेखः कृतः, तत्सिद्धांतानां च प्रतिस्थानं खंडनं कृतं । कुमारिलभट्टस्य समयः ७६० ऐशवीयपर्यंत निश्चितः, अतोपि विद्यानंदी तत्समकालीनस्तदनु. गश्च प्रादुर्भूतः स्यात् । चिद्विलासकृत-शंकरदिग्विजयात् प्रतीयते यन्मंडनमिश्रस्यापरनाम सुरेश्वर आसीत् , सुरेश्वरश्च शंकराचार्यस्य शिष्य इति सुप्रसिद्धमेव । आद्यशंकराचार्यसमयः ७५०-८३८ ऐशवीयपर्यंत निश्चितः अत एव मंडनमिश्रस्यापि एतन्निकटवर्ती समयो मंतव्यः । मंडनमिश्रनिर्मितं बृहदारण्यकोपनिषद्वार्तिकं नाम ग्रंथो वर्तते, एतत्तृतीयाध्यायश्लोकानां स्वीयाष्टसहस्रीनाम्नि ग्रंथे उद्धार कृत्वा खंडनं कृतं । तथाहि-"यदुक्तं बृहदारण्यकवार्तिके-"आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितं । ब्रह्मापि स तथैवात्मा स द्वितीयतयेक्ष्यते ॥ आत्मा ब्रह्मेति पारोक्ष्यः स द्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितं ॥ त्वत्पक्षे बहुकल्प्यं स्यात्सर्वं ज्ञानविरोधि च । कल्प्या विद्यैव मत्पक्षे सा चानुभवसंश्रये ॥” इति कश्चित् , सोपि न प्रेक्षावान् । "ब्रह्म विद्यावदिष्टं चेन्ननु दोषो महानयं । निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते" । अनेन विद्यानंदिसमयोपि मंडनमिश्रसमयसमवर्ती ८३८ ऐशवीयोनुमंतव्यः ॥ कालिकातापत्तनस्थराजकीयसंस्कृतमहाविद्यालयप्रबंधकर्तृभिः (प्रिन्सिपाल) महामहोपाध्याय एम्. ए. पदवीप्रतिष्ठितैः विद्वद्वरैः श्रीसतीशचंद्रविद्याभूषणमहोदयैः खनिर्मित इंडियन् मेडिकल लॉजिक' नाम्नि ग्रंथेपि विद्यानंदिखामिसमयः ८०० ऐशवीयनिकटवर्ती एव निश्चितः । इत्याद्यन्यैरपि निखिलप्रमाणविद्यानंदिसमयः पूर्वोदितो अष्टमशताब्द्याः शेषार्ध नवम्या प्रारंभ इत्युभयवर्ती एव सिद्धः । एतत्स्वामिना दार्शनिकेन नैयायिकेन विदुषा पूर्व तु अष्टसहस्रीनामक आप्तमीमांसालंकारो निर्मितः, तदनु एष श्लोकवार्तिकालंकारः, तृतीयः युक्त्यनुशासनटीकेति प्रथितः, चतुर्थः आप्तपरीक्षानामक इति, एतेभ्योन्येपि पत्रपरीक्षा-प्रमाणपरीक्षा-प्रमाणनिर्णयादिबहवो ग्रंथा अनेनैव प्राज्ञवरेण खामिना निर्मिताः ॥ एतद्रंथसंशोधनकार्य पुस्तकमेकमतीवप्राचीनं जयपुरनगरालब्धं, द्वितीयं मुम्बईपट्टनस्थं किंचिदशुद्धप्रायं । तयोः साहाय्येन स्वज्ञानावरणक्षयोपशमानुसारेण च संशोधितं । किंचिद्भागस्य संशोधने पं० खूबचंद्रशास्त्रिणा साहाय्यं कृतमिति तं शतशो धन्यवादं ददे । प्रस्तावना विषये श्रीनाथूराम-प्रेमीतः सहायता प्राप्तातस्तमपि हार्दिकधन्यवादेन प्रीणये । तदनु ददे च धन्यवादं कोटिशः श्रीमन्नाथारंगजीश्रेष्ठी इत्येतेषां कुटुम्बिनः श्रीरामचंद्रसूरचंद्रवेष्ठिवर्यान् यत्साहाय्येनायं महान् ग्रंथो मुद्रितो मुमुक्षुभव्यजीवानामवलोकनपथं प्राप्तः । तदनु च महामहोपाध्यायकालिकाताराजकीयपरीक्षालयाधिकारिणश्च कोटिशो धन्यवादमभिभाषये येषां साहाय्येनायं ग्रंथराजः न्यायतीर्थपरीक्षायां पठनपाठनपदवीं प्राप्तः । तत्पश्चान्मद्विद्यागुरून् स्वर्गीयगोपालदास इत्येतान् स्मारं स्मारं हृदये निदधे येषां कृपामारेणाहमेतद्रंथसंशोधने क्षमो जातः । अंते चेत्येवं प्रार्थये सज्जनपाठकेभ्यः सुमेधोभ्यो यत्प्रमादात् दृष्टिदोपादन्यैश्च बहुभिः कारणैरशुद्धयो जाताश्चेत्तर्हि ते सुमेधसो मामल्पबुद्धिं विज्ञाय कृपां विधाय क्षमिष्यंतीति । कृतं पल्लवितेन विज्ञेषु । जैनग्रंथउद्धारककार्यालय .) विदुषामनुचरो खत्तरगली हौदावाड़ी पो० गिरगांव-बंबई ता० १४१८१८ ई. मनोहरलालः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 522