Book Title: Tattvarthashloakvarttikam Author(s): Vidyanandi, Manoharlal Publisher: Ramchandra Natharangji MumbaiPage 13
________________ तत्त्वार्थश्लोकवार्तिके योजनत्वसाधनमप्रयुक्तमपि सकलशास्त्रव्याख्यानेन समर्थ्यते क्वचित्प्रयुज्यमानमिति नैकांतः, स्याद्वादिनामविरोधात् । सर्वथैकांतवादिनां तु न प्रयोजनवाक्योपन्यासो युक्तस्तस्याप्रमाणत्वात् । तदागमः प्रमाणमिति चेत् । सोऽपौरुषेयः पौरुषेयो वा ? न तावदाद्यपक्षकक्षीकरणं "अथातो धर्मजिज्ञासे"ति प्रयोजनवाक्यस्यापौरुषेयत्वासिद्धेः । खरूपेर्थे तस्य प्रामाण्यानिष्टेश्चान्यथातिप्रसंगात् । पौरुषेय एवागमः प्रयोजनवाक्यमिति चेत् । कुतोस्य प्रामाण्यनिश्चयः । खत एवेति न, खतः प्रामाण्यैकांतस्य निराकरिष्यमाणस्वात् । परत एवागमस्य प्रामाण्यमित्यन्ये, तेषामपि नेदं प्रमाणं सिद्ध्यति । परतः प्रामाण्यस्थानवस्थादिदोषदूषितत्वेन प्रतिक्षेप्स्यमानत्वात् प्रतीतिविरोधात् । परार्थानुमानमादौ प्रयोजनवचनमित्यपरे । तेपि न युक्तिवादिनः, साध्यसाधनयोर्व्याप्तिप्रतिपत्तौ तर्कस्य प्रमाणस्यानभ्युपगमात् । प्रत्यक्षस्यानुमानस्य वा तत्रासमर्थत्वेन साधयिष्यमाणत्वात् । ये त्वप्रमाणकादेव विकल्पज्ञानात्तयोर्व्याप्तिप्रतिपत्तिमाहुस्तेषां प्रत्यक्षानुमानप्रमाणत्वसमर्थनमनर्थकमेव, प्रमाणादेव प्रत्यक्षानुमेयार्थप्रतिपत्तिप्रसंगात् । ततो न प्रयोजनवाक्यं स्याद्वादविद्विषां किंचित्प्रमाणं प्रमाणादिव्यवस्थानासंभवाच्च न तेषां तत्प्रमाणमिति शास्त्रप्रणयनमेवासंभवि विभाव्यतां किं पुनः प्रयोजनवाक्योपन्यसनं । श्रद्धाकुतूहलोत्पादनार्थ तदित्येके । तदप्यनेनैव निरस्तं, तस्य प्रमाणत्वाप्रमाणत्वपक्षयोस्तदुत्पादकत्वायोगात् । अर्थसंशयोत्पादनार्थ तदित्यप्यसारं, कचिदर्थसंशयात् प्रवृत्तौ प्रमाणव्यवस्थापनानर्थक्यात् । प्रमाणपूर्वकोर्थसंशयः प्रवर्तक इति प्रमाणव्यवस्थापनस्य साफल्ये कथमप्रमाणकात् प्रयोजनवाक्यादुपजातोर्थसंशयः । प्रवृत्त्यंगं विरुद्धं च संशयफलस्य प्रमाणत्वं विपर्यासफलवत् , खार्थव्यवसायफलस्यैव ज्ञानस्य प्रमाणत्वप्रसिद्धेः । ये त्वाहुर्यनिष्प्रयोजनं तन्नारंभणीयं यथा काकदंतपरीक्षाशास्त्रं निष्प्रयोजनं चेदं शास्त्रमिति । व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानात्प्रतिव्यापकानुपलब्धेरसिद्धतोद्भावनार्थ प्रयोजनवाक्यमिति । तेपि न परीक्षकाः । खयमप्रमाणकेन तदसिद्धतोद्भावनाऽसंभवात् , तत्प्रमाणत्वस्य परैर्व्यवस्थापयितुमशक्तेः । सकलशास्त्रार्थोद्देशकरणार्थमादिवाक्यमित्यपि फल्गुप्रायं, तदुद्देशस्याप्रमाणात् प्रतिपत्तुमशक्तेस्तल्लक्षणपरीक्षावत् । ततो नोद्देशो लक्षणं परीक्षा चेति त्रिविधा व्याख्या व्यवतिष्ठते । समासतोऽर्थप्रतिपत्त्यर्थमादिवाक्यं व्यासतस्तदुत्तरशास्त्रमित्यप्यनेनैव प्रतिक्षिप्तमप्रमाणायासत इव समासतोप्यर्थप्रतिपत्तेरयोगात् । स्याद्वादिनां तु सर्वमनवद्यं तस्यागमानुमानरूपत्वसमर्थनादित्यलं प्रसंगेन । ननु च तत्त्वार्थशास्त्रस्यादिसूत्रं तावदनुपपन्नं प्रवक्तृविशेषस्याभावेपि प्रतिपाद्यविशेषस्य च कस्यचित् प्रतिपित्सायामसत्यामेव प्रवृत्तत्वादित्यनुपपत्तिचोदनायामुत्तरमाह; प्रवुद्धाशेषतत्त्वार्थे साक्षात् प्रक्षीणकल्मषे । सिद्धे मुनीन्द्रसंस्तुत्ये मोक्षमार्गस्य नेतरि ॥२॥ सत्यां तत्प्रतिपित्सायामुपयोगात्मकात्मनः । श्रेयसा योक्ष्यमाणस्य प्रवृत्तं सूत्रमादिमम् ॥ ३ ॥ तेनोपपन्नमेवेति तात्पर्य । सिद्धे प्रणेतरि मोक्षमार्गस्य प्रकाशकं वचनं प्रवृत्तं तत्कार्यत्वादन्यथा प्रणेतृव्यापारानपेक्षत्वप्रसंगात् तयंग्यत्वात्तत्तदपेक्षमितिचेत् । न । कूटस्थस्य सर्वथाभिव्यंग्यत्वविरोधात्तदभिव्यक्तेरव्यवस्थितेः । सा हि यदि वचनस्य संस्काराधानं तदा ततो भिन्नोऽन्यो वा संस्कारः प्रणेतृव्यापारेणाधीयते, यद्यभिन्नस्तदा वचनमेव तेनाधीयत इति कथं कूटस्थं नाम । भिन्नश्चेत्पूर्ववत् तस्य सर्वदाप्यश्रवणप्रसंगः । प्राक् पश्चाद्वा श्रवणानुषंगः खखभावापरित्यागात् । संस्काराधानकाले प्राच्याश्राव Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 522