Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 21
________________ १२ तत्त्वार्थश्लोकवार्तिके न्नैवं तन्नैवं दृष्टं यथान्यत्र क्रमशो रूपादिज्ञानं न च तथेदमतोक्षमनोनपेक्षमित्यप्यनिष्टं सिच्छेदिति मा मंस्थाः साधनस्यासिद्धत्वात्, परस्यापि हि नैकांतेन शष्कुलीभक्षणादौ रूपादिज्ञानपंचकस्य सकृद्रूपादिपंचकपरिच्छेदकत्वं सिद्धं । सोपयोगस्यानेकज्ञानस्यैकत्रात्मनि क्रमभावित्ववचनात् । शक्तितोनुपयुक्तस्य यौगपद्यस्याप्रसिद्धेः । प्रतीतिविरुद्धं चास्याक्षमनोनपेक्षत्वसाधनं तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेरन्यथा कस्यचित्तदपेक्षत्वायोगात् । ततः कस्यचित् सकृत्सूक्ष्माद्यर्थसाक्षात्करणमिच्छता मनोक्षानपेक्षमेषितव्यमिति नाक्षानपेक्षत्वविशेषणं सूक्ष्माद्यर्थोपदेशस्यासिद्धं सिद्धमप्येतदनर्थकं तत् साक्षात्कर्तृपूर्वकत्वसामान्यस्य साधयितुमभिप्रेतत्वान्न वा सर्वज्ञवादिनः सिद्धसाध्यता, नापि साध्याविकलत्वादुदाहरणस्यानुपपत्तिरित्यन्ये । प खमतानपेक्षं ब्रुवाणा न प्रतिषिध्यंते परानुरोधात्तथाभिधानात् । खसिद्धांतानुसारिणां तु सफलमक्षानपेक्षत्वविशेषणमित्युक्तमेव । तदनुमातृपूर्वक सूक्ष्माद्यर्थोपदेशे नाक्षानपेक्षावितथत्वमनैकांतिकमित्यपि न शंकनीयं । लिंगानपेक्षत्वविशेषणात् । न चेदमसिद्धं परोपदेशपूर्वके सूक्ष्माद्यर्थोपदेशे लिंगानपेक्षा - वितथत्वप्रसिद्धेः। तेनैव व्यभिचारीदमिति चेत् न, परोपदेशानपेक्षत्वविशेषणात् । तदसिद्धं धर्माद्युपदेशस्य सर्वदा परोपदेशपूर्वकत्वात् । तदुक्तं । धर्मे चोदनैव प्रमाणं नान्यत् । किं च । नेन्द्रियमिति कश्चित् । तत्र केयं चोदना नाम ? क्रियायाः प्रवर्तकं वचनमिति चेत् तत् पुरुषेण व्याख्यातं स्वतो वा क्रियायाः प्रवर्तकं श्रोतुः स्यात् ? न तावत्स्वत एवाचार्यचोदितः करोमीति हि दृश्यते न वचनचोदित इति । नन्वपौरुषेयाद्वचनात्प्रवर्तमानो वचनचोदितः करोमीति प्रतिपद्यते पौरुषेयादाचार्यचोदित इति विशेषोस्त्येवेति चेत्। स्यादेवं यदि मेघध्वानवदपौरुषेयं वचनं पुरुषप्रयत्त्रनिरपेक्षं प्रवर्तकं क्रियायाः प्रतीयेत, न च प्रतीयते । सर्वदा पुरुषव्यापारापेक्षत्वात्तत्स्वरूपलाभस्य । पुरुषप्रयत्नोभिव्यंजकस्तस्येति चेन्नैकांतनित्यस्या भिव्यक्त्यसंभवस्य समर्थितत्वात् । पुरुषेण व्याख्यातमपौरुषेयं वचः क्रियायाः प्रवर्तकमिति चेत्, स पुरुषः प्रत्ययितोऽप्रत्ययितो वा ? न तावत्प्रत्ययितोतीन्द्रियार्थज्ञानविकलस्य रागद्वेषवतः सत्यवादितया प्रत्येतुमशक्तेः । स्यादपींद्रियगोचरेर्थेऽनुमानगोचरे वा पुरुषस्य प्रत्ययिता ननु तृतीयस्थानं संक्रांते जात्यंधस्येव रूपविशेषेषु । न च ब्रह्मा मन्वादिर्वातीन्द्रियार्थदर्शी रागद्वेषविकलो वा सर्वदोपगतो यतोस्मात्प्रत्ययिताच्चोदनाव्याख्यानं प्रमाण्यमुपेयादित्युक्तं प्राक् । खयमप्रत्ययितात्तु पुरुषात् तद्व्याख्यानं प्रवर्तमानमसत्यमेव नद्यास्तीरे फलानि संतीति लौकिकवचनवत् । न चापौरुषेयं वचनमतथाभूतमप्यर्थं ब्रूयादिति विप्रतिषिद्धं यतस्तद्व्याख्यानमसत्यं न स्यात् । लौकिकमपि हि वचनमर्थं ब्रवीति बोधयति बुध्यमानस्य निमित्तं भवतीत्युच्यते वितथार्थाभ्यधायि च दृष्टमविप्रतिषेधात् । तद्यदार्थ ब्रवीति न तदा वितथार्थाभिधायि । यदा तु बाधकप्रत्ययोत्पत्तौ वितथार्थाभिधायि न तदा यथार्थ ब्रवीत्यविप्रतिषेधे वेदवचनेपि तथा विप्रतिषेधो मा भूत्, तत्र बाधकप्रत्ययोत्पत्तेरसंभवाद्विप्रतिषेध एवेति चेत्, नाग्निहोत्रात्स्वर्गो भवतीति चोदनायां बाधकसद्भावात् । तथाहि । नाग्निहोत्रं स्वर्गसाधनं हिंसाहेतुत्वात्साधनवधवत् साधनवधो वा न स्वर्गसाधनस्तत एवाग्निहोत्रवत् । विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिंसाहेतुत्वाभावात् असिद्धो हेतुरिति चेत्, तर्हि विधिपूर्वकस्य साधनवधस्य खारपटिकानां विहितानुष्ठानत्वेन हिंसाहेतुत्वं माभूदिति सधनवधात्स्वर्गे भवतीति वचनं प्रमाणमस्तु तस्याप्यैहिकप्रत्यवायपरिहारसमर्थेतिकर्तव्यतालक्षणविधिपूर्वकत्वाविशेषात् । न हि वेदविहितमेव विहितानुष्ठानं, न पुनः खरपटशास्त्रविहितमित्यत्र प्रमाणमस्ति यागः । श्रेयोर्थिनां विहितानुष्ठानं श्रेयस्करत्वान्न सधनवधस्तद्विपरीतत्वादिति चेत् । कुतो यागस्य श्रेयस्करत्वं ? धर्मशब्देनोच्यमानत्वात् । यो हि यागमनुतिष्ठति तं 'धार्मिक' इति समाचक्षते, यश्च यस्य कर्ता स तेन समाख्यायते यथा याचको लावक इति । तेन यः पुरुषं निःश्रेय 1 Jain Education International For Private & Personal Use Only E www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 522