Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 11
________________ तत्त्वार्थश्लोकवार्तिके यत्तं न भवेत् । यच्च चक्षुरादिमतिपूर्वकं श्रुतं तन्नेह प्रस्तुतं, श्रोत्रमतिपूर्वकस्य भावश्रुतस्य प्रस्तुतत्वात्तस्य चाप्तोपदेशायत्तताप्रतिष्ठानात्परापराप्तप्रवाहनिबंधन एव परापरशास्त्रप्रवाहस्तन्निबंधनश्च सम्यगवबोधः स्वयमभिमतशास्त्रकरणलक्षणफलसिद्धेरभ्युपाय इति तत्कामैराप्तस्सकलोप्याध्यातव्य एव । तदुक्तं । “अभिमतफलसिद्धेरभ्युपायः सुबोधः प्रभवति स च शास्त्रात्तस्य चोत्पत्तिराप्तात् । इति भवति स पूज्यस्तत्प्रसादप्रबुद्धैर्न हि कृतमुपकारं साधवो विस्मरंति ॥" ननु यथा गुरूपदेशः शास्त्रसिद्धेर्निबंधनं तथाप्तानुध्यानकृतनास्तिकता परिहारशिष्टाचारपरिपालनमंगलधर्मविशेषाश्च तत्सहकारित्वाविशेषादिति चेत् । सत्यं । केवलमाप्तानुध्यानकृता एव ते तस्य सहकारिण इति नियमो निषिध्यते, साधनांतरकृतानामपि तेषां तत्सहकारितोपपत्तेः कदाचित्तदभावेपि पूर्वोपात्तधर्मविशेषेभ्यस्तन्निष्पत्तेश्च । परापरगुरूपदेशस्तु नैवमनियतः, शास्त्रकरणे तस्यावश्यमपेक्षणीयत्वादन्यथा तदघटनात् । ततः सूक्तं परापरगुरुप्रवाहस्याध्यानं तत्त्वार्थ श्लोकवार्तिकप्रवचनात् पूर्वं श्रेयस्तत्सिद्धि निबंधनत्वादिति प्रधानप्रयोजनापेक्षया नान्यथा, मंगलकरणादेरप्यनिवारणात् पात्रदानादिवत् । कथं पुनस्तत्त्वार्थः शास्त्रं तस्य श्लोकवार्तिकं वा तद्व्याख्यानं वा, येन तदारंभे परमेष्टिनामाध्यानं विधीयत इति चेत्, तल्लक्षणयोगत्वात् । वर्णात्मकं हि पदं, पदसमुदायविशेषः सूत्रं, सूत्रसमूहः प्रकरणं, प्रकरणसमितिराह्निकं, आह्निकसंघातो अध्यायः, अध्यायसमुदायः शास्त्रमिति शास्त्रलक्षणं । तच्च तत्त्वार्थस्य दशाध्यायीरूपस्यास्तीति शास्त्रं तत्त्वार्थः । शास्त्रभासत्वशंकाप्यत्र न कार्यान्वर्थसंज्ञाकरणात् । तत्त्वार्थविषयत्वाद्धि तत्त्वार्थो ग्रंथः प्रसिद्धो न च शास्त्राभासस्य तत्त्वार्थविषयता विरोधात्सर्वथैकांतसंभवात् । प्रसिद्धे च तत्त्वार्थस्य शास्त्रत्वे तद्वार्तिकस्य शास्त्रत्वं सिद्धमेव तदर्थत्वात् । वार्तिकं हि सूत्राणामनुपपत्तिचोदना तत्परिहारो विशेषाभिधानं प्रसिद्धं, तत्कथमन्यार्थं भवेत्। तदनेन तद्व्याख्यानस्य शास्त्रत्वं निवेदितं । ततोऽन्यत्र कुतः शास्त्रव्यवहार इतिचेत्, तदेकदेशे शास्त्रत्वोपचारात् । यत्पुनद्वादशांगं श्रुतं तदेवंविधानेकशास्त्र समूहरूपत्वान्महाशास्त्रमनेकस्कंधाधारसमूहमहास्कंधाधारवत् । येषां तु शिष्यंते शिष्या येन तच्छास्त्रमिति शास्त्रलक्षणं तेषामेकमपि वाक्यं शास्त्रव्यवहारभाग् भवेदन्यथाभिप्रेतमपि माभूदिति यथोक्तलक्षणमेव शास्त्रमेतदवबोद्धव्यं । ततस्तदारंभे युक्तं परापरगुरुप्रवाहस्याध्यानं । अथवा यद्यपूर्वार्थमिदं तत्त्वार्थश्लोकवार्तिकं न तदा वक्तव्यं, सतामनादेयत्वप्रसंगात् खरुचिविरचितस्य प्रेक्षवतामनादरणीयत्वात् । पूर्वप्रसिद्धार्थं तु सुतरामेतन्न वाच्यं, पिष्टपेषणवद्वैयर्थ्यादिति ब्रुवाणं प्रत्येतदुच्यते । “विद्यास्पदं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति ।" विद्या पूर्वाचार्य - शास्त्राणि सम्यग्ज्ञानलक्षणविद्यापूर्वकत्वात्ता एवास्पदमस्येति विद्यास्पदं । न पूर्वशास्त्रानाश्रयं, यतः खरुचिविरचितत्वादनादेयं प्रेक्षावतां भवेदिति यावत् । पिष्टपेषणवध्यर्थं तथा स्यादित्यप्यचोद्यं, आध्यायघातिसंघातघातनमिति विशेषणेन साफल्यप्रतिपादनात् । धियः समागमो हि ध्यायः समंताच्यायोस्मादित्याध्यायं तच्च तद्भातिसंघातघातनं चेत्याध्यायघातिसंघातघातनं । यस्माच्च प्रेक्षावतां समंततः प्रज्ञासमागमो यच्च मुमुक्षून् खयं घातिसंघातं नतः प्रयोजयति तन्निमित्तकारणत्वात् । तत्कथमफलमावेदयितुं शक्यं । प्रज्ञातिशयसकलकल्मषक्षयकरणलक्षणेन फलेन फलवत्त्वात् । कुतस्तदाध्यायघातिसंघातघातनं सिद्धं ? विद्यास्पदत्वात् । यत्पुनर्न तथाविधं न तद्विद्यास्पदं यथा पापानुष्ठानमिति समर्थयिष्यते । विद्यास्पदं कुतस्तदिति चेत्, श्रीवर्धमानत्वात् । प्रतिस्थानमविसंवादलक्षणया हि श्रिया वर्धमानं कथमविद्यास्पदं नामातिप्रसंगात् । तदेवं सप्रयोजनत्वप्रतिपादनपरमिदमादिश्लोकवाक्यं प्रयुक्तमवगम्यते । ननु किमर्थमिदं प्रयुज्यते ? श्रोतृजनानां प्रवर्तनार्थमिति चेत्, ते यदि श्रद्धानुसारिणस्तदा व्यर्थस्तत्प्रयोगस्तमंतरेणापि यथाकथंचित् तेषां शास्त्रश्रवणे प्रवर्तयितुं शक्यत्वात् । यदि प्रेक्षावंतस्ते तदा कथमप्रमाणकाद्वाक्यात्प्र 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 522