Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 18
________________ प्रथमोऽध्यायः । केयं तदर्थसंप्रतिपत्तिरमंदस्य प्रतिपत्तुर्जातुचिदसंभवात् । सातिशयप्रज्ञो मन्वादिस्तत्प्रतिपत्ता संप्रतिपत्तिहेतुरस्त्येवेति चेत् । कुतस्तस्य तादृशः प्रज्ञातिशयः? श्रुत्यर्थस्मृत्यतिशयादिति चेत्। सोपि कुतः। पूर्वजन्मनि श्रुत्यभ्यासादिति चेत् , स तस्य खतोऽन्यतो वा ? खतश्चेत् सर्वस्य स्यात् तस्यादृष्ट विशेषाद्वेदाभ्यासः खतो युक्तो न सर्वस्य तदभावादिति चेत् कुतोस्यैवादृष्टविशेषस्तादृग्वेदार्थानुष्ठानादिति चेत् । तर्हि स वेदार्थस्य स्वयं ज्ञातस्यानुष्ठाता स्यादज्ञातस्य वापि । न तावदुत्तरः पक्षोतिप्रसंगात् । खयं ज्ञातस्य चेत् परस्पराश्रयः, सति वेदार्थस्य ज्ञाने तदनुष्ठानाददृष्टविशेषः सति वादृष्टविशेषे खयं वेदार्थस्य परिज्ञानमिति । मन्वादेर्वेदाभ्यासोन्यत एवेति चेत् । स कोन्यः ? ब्रह्मेति चेत् । तस्य कुतो वेदार्थज्ञानं धर्मविशेषादिति चेत् स एवान्योन्याश्रयः । वेदार्थपरिज्ञानाभावे तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तौ वेदार्थपरिज्ञानायोगादिति । स्यान्मतं । सहस्रशाखो वेदः खर्गलोके ब्रह्मणाधीयते चिरं पुनस्ततोवतीर्य मयै मन्वादिभ्यः प्रकाश्यते पुनः खर्ग गत्वा चिरमधीयते पुनर्मावतीर्णेभ्यो मन्वादिभ्योऽवतीर्य प्रकाश्यत इत्यनाद्यनंतो ब्रह्ममन्वादिसंतानो वेदार्थविप्रतिपत्तिनिराकरणसमर्थोऽधपरंपरामपि परिहरतीति वेदे तव्याहृतं, सर्वपुरुषाणामतींद्रियार्थज्ञानविकलत्वोपगमाद्ब्रह्मादेरतींद्रियार्थज्ञानायोगात् । चोदनाजनितमतींद्रियार्थज्ञानं पुसोभ्युपेयते चेत्, योगिप्रत्यक्षेण कोपराधः कृतः। तदन्तरेणापि हेयोपादेयतत्त्वनिश्चयात् किमस्यादृष्टस्य कल्पनयेति चेत् ब्रह्मादेरतींद्रियार्थज्ञानस्य किमिति दृष्टस्य कल्पना । संभाव्यमानस्येति चेत् योगिप्रत्यक्षस्य किमसंभावना । यथैव हि शास्त्रार्थस्याक्षाद्यगोचरस्य परिज्ञानं केषांचिदृष्टमिति ब्रह्मादेर्वेदार्थस्य ज्ञानं तादृशस्य संभाव्यते तथा केवलज्ञानमपीति निवेदयिष्यते। ततः सकलागमार्थविदामिव सर्वविदां प्रमाणपिरत्वान्नानुपलभ्यमानानां परिकल्पना । नापि तैर्विनैव हेयोपादेयतत्त्वनिर्णयः सकलार्थविशेषसाक्षास्करणमंतरेण कस्यचिदर्थस्याक्षूणविधानायोगात् । सामान्यतस्तत्त्वोपदेशस्याषणविधानमाम्नायादेवेति चेत् तर्खनुमानादेव तत्तथास्त्विति किमागमप्रामाण्यसाधनायासेन । प्रत्यक्षानुमानाविषयत्वनिर्णयो नागमाद्विनेति तत्प्रामाण्यसाधने प्रत्यक्षानुमानागमाविषयत्वविशेषनिश्चयोपि न केवलज्ञानाद्विनेति तत्प्रामाण्यं किं न साध्यते । न हि तृतीयस्थानसंक्रांतार्थभेदनिर्णयासंभवेनुमेयार्थनिर्णयो नोपपद्यत इत्यागमगम्यार्थनिश्चयस्तत्त्वोपदेशहेतुर्न पुनश्चतुर्थस्थानसंक्रांतार्थनिश्चयोपीति युक्तं वक्तुं । तदा केवलज्ञानासंभवे तदर्थनिश्चयायोगात् । न च चोदनाविषयत्वमतिक्रांतश्चतुर्थस्थानसंक्रांतः कश्चिदर्थविशेषो न विद्यत एवेति युक्तं, सर्वार्थविशेषाणां चोदनया विषयीकर्तुमशक्तेस्तस्याः सामान्यभेदविषयत्वात् । ततोऽशेषार्थविशेषाणां साक्षात्करणक्षमः प्रवचनस्याद्यो व्याख्याताभ्युपेयस्तद्विनेयमुख्यश्च सकलागमार्थस्य परिच्छेदीति तत्संप्रदायाव्यवच्छेदादविरुद्धात्सिद्धोमदादेरागमार्थनिश्चयो न पुनरपौरुषेयागमसंप्रदायाव्यवच्छेदात्तत्सूक्तमागमः प्रमाणमिदं सूत्रमिति । ननु च सन्नप्याप्तः प्रवचनस्य प्रणेतास्येति ज्ञातुमशक्यस्तद्व्यापारादेर्व्यभिचारित्वात् सरागा अपि हि वीतरागा इव चेष्टते वीतरागाश्च सरागा इवेति कश्चित् । सोप्यसंबद्धप्रलापी । सरागत्ववीतरागत्वनिश्चयस्य कचिदसंभवे तथा वक्तुमशक्तेः । सोयं वीतरागं सरागवच्चेष्टमानं कथंचिन्निश्चिन्वन् वीतरागनिश्चयं प्रतिक्षिपतीति कथमप्रमत्तः खयमात्मानं कदाचिद्वीतरागं सरागवच्चेष्टमानं संवेदयते न पुनः परमिति चेत् । कुतः सुगतसंवित्तिः कार्यानुमानादिति चेत् न । तत्कार्यस्य व्याहारादेर्व्यभिचारित्ववचनात् विप्रकृष्टखभावस्य सुगतस्य नास्तित्वं प्रतिक्षिप्यते । बाधकामावान्न तु तदस्तित्वनिश्चयः क्रियत इति चेत् कथमनिश्चितसत्ताकः स्तुत्यः प्रेक्षावतामिति साश्चर्य नश्वेतः । कथं वा संतानांतरक्षणस्थितिवर्गप्रापणशक्त्यादेः सत्तानिश्चयः खभावविप्रकृष्टस्य क्रियेत तदकरणे सर्वत्र संशयान्नाभिमततत्त्वनिश्चयः संवेदनाद्वैतमत एवं श्रेयस्तस्यैव सुगतत्वात् संस्तुत्यतोपपत्तेरित्यपरः । सोपि यदि संवेद्याद्याकाररहितं निरंश Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 522