Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 12
________________ प्रथमोऽध्यायः । वर्तते प्रेक्षावत्त्वविरोधादिति केचित् । तदसारं । प्रयोजनवाक्यस्य सप्रमाणकत्वनिश्चयात् । प्रवचनानुमानमूलं हि शास्त्रकारास्तत्प्रथमं प्रयुंजते नान्यथा, अनादेयवचनत्वप्रसंगात् तथाविधाच्च । ततः श्रद्धानुसारिणां प्रेक्षावतां च प्रवृत्तिर्न विरुध्यते । श्रद्धानुसारिणोपि यागमादेव प्रवर्तयितुं शक्या, न यथा कथंचित् प्रवचनोपदिष्टतत्त्वे श्रद्धामनुसरतां श्रद्धानुसारित्वादन्यादृशाम तिमूढमनस्कत्वात् तत्त्वार्थश्रवणेऽनधिकृतत्वादतिविपर्यस्तवत् तेषां तदनुरूपोपदेशयोग्यत्वात् सिद्धमातृकोपदेशयोग्यदारकवत् । प्रेक्षावंतः पुनरागमादनुमानाच्च प्रवर्तमानास्तत्त्वं लभंते, न केवलादनुमानात्प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसंगात् । नापि केवलादागमादेव विरुद्धार्थमतेभ्योपि प्रवर्तमानानां प्रेक्षावत्त्वप्रसक्तेः । तदुक्तं । “सिद्धं चेद्धेतुतः सर्वे न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वे विरुद्धार्थमतान्यपि " इति । तस्मादाप्ते वक्तरि संप्रदायाव्यवच्छेदेन निश्चिते तद्वाक्यात्प्रवर्तनमागमादेव । वक्तर्यनाप्ते तु यत्तद्वाक्यात्प्रवर्तनं तदनुमानादिति विभागः साधीयान् । तदप्युक्तं । “वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितं।” न चैवं प्रमाणसंप्लववादिविरोधः, कचिदुभाभ्यामागमानुमानाभ्यां प्रवर्तनस्येष्टत्वात् । प्रवचनस्याहेतुहेतुमदात्मकत्वात् । स्वसमयप्रज्ञापकत्वस्यं तत्परिज्ञाननिबंधनत्वादपरिज्ञाताहेतुवादागमस्य सिद्धांतविरोधकत्वात् । तथा चाभ्यधायि । " जो हेदुवादपरकम्मि हेदुओ आगमम्मि आगमओ | सो ससमयपण्णवओ सिद्धंतविरोहओ अण्णोति ॥" तत्रागममूलमिदमादिवाक्यं परापरगुरुप्रवाहमाध्याय प्रवचनस्य प्रवर्तकं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति वचनस्यागमपूर्वकागमार्थत्वात् । प्रामाण्यं पुनरस्याभ्यस्तव गुणान् प्रतिपाद्यान् प्रति खत एवाभ्यस्त कारणगुणान् प्रति प्रत्यक्षादिवत् । स्वयमनभ्यस्त - वक्तृगुणांस्तु विनेयान् प्रति सुनिश्चितासंभवद्वाधकत्वादनुमानात्खयं प्रतिपन्नाप्तांतरवचनाद्वा निश्चितप्रामाण्यात् । नचैवमनवस्था परस्पराश्रयदोषो वा । अभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यनिश्चयादनवस्थाया निवृत्तेः, पूर्वस्यानभ्यस्तविषयस्य परस्मादभ्यस्तविषयात्प्रमाणत्वप्रतिपत्तेः । तथानुमानमूलमेतद्वाक्यं, स्वयं खार्थानुमानेन निश्चितस्यार्थस्य परार्थानुमानरूपेण प्रयुक्तत्वात् । समर्थनापेक्षसाधनत्वान्न प्रयोजनवाक्यं परार्थानुमानरूपमिति चेत् न, खेष्टानुमानेन व्यभिचारात् न हि तत्समर्थनापेक्षसाधनं न भवति प्रतिवादिविप्रतिपत्तौ तद्विनिवृत्तये साधनसमर्थनस्यावश्यं भावित्वात्, केषांचिदसमर्थितसाधनवचने असाधनांगवचनस्येष्टेः । प्रकृतानुमान हेतोरशक्यसमर्थनत्वमपि नाशंकनीयं, तदुत्तरग्रंथेन तद्धेतोः समर्थननिश्चयात् । सकलशास्त्र व्याख्यानात्तद्धेतुसमर्थनप्रवणात्तत्त्वार्थश्लोकवार्तिकस्य प्रयोजनवत्त्वसिद्धेः । प्रागेवापार्थकं प्रयोजनवचनमितिचेत्, तर्हि खेष्टानुमाने हेत्वर्थसमर्थनप्रपंचाभिधानादेव साध्यार्थसिद्धेस्ततः पूर्वं हेतूपन्यासोपार्थकः किन्न भवेत् । साधनस्यानभिधाने समर्थनमनाश्रयमेवेति चेत्, प्रयोजनवत्त्वस्यावचने तत्समर्थनं कथमनाश्रयं न स्यात् । ये तु प्रतिज्ञामनभिधाय तत्साधनाय हेतूपन्यासं कुर्वाणाः साधनमभिहितमेव समर्थयंते ते कथं स्वस्थाः । पक्षस्य गम्यमानस्य साधनाददोष इति चेत्, प्रयोजनवत् साधनस्य गम्यमानस्य समर्थने को दोषः संभाव्यते । सर्वत्र गम्यमानस्यैव तस्य समर्थनसिद्धेः प्रयोगो न युक्त इति चेत्, संक्षिप्तशास्त्रप्रवृत्तौ सविस्तरशास्त्रप्रवृत्तौ वा ? प्रथमपक्षे न किंचिदनिष्टं, सूत्रकारेण तस्याप्रयोगात् सामर्थ्याद्गम्यमानस्यैव सूत्रसंदर्भेण समर्थनात् । द्वितीयपक्षे तस्याप्रयोगे प्रतिज्ञोपनयनिगमनप्रयोगविरोधः । प्रतिज्ञानिगमनयोरप्रयोग एवेति चेत्, तद्वत्पक्षधर्मोपसंहारस्यापि प्रयोगो मा भूत् । यत्सत्तत्सर्वं क्षणिकमित्युक्ते शब्दादौ सत्त्वस्य सामर्थ्याद्गम्यमानत्वात् । तस्यापि क्वचिदप्रयोगेऽभीष्ट एव विदुषां " वाच्यो हेतुरेव हि केवल" इति वचनात् । तर्हि सविस्तरवचने गम्यमानस्यापि सिद्धः प्रयोगः, संक्षिप्तवचनप्रवृत्तावेव तस्याप्रयोगात् । ततः क्वचिद्गम्यमानं सप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 522