Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 15
________________ तत्त्वार्थश्लोकवार्तिके यतो घटादेरेवेति व्यवतिष्ठते, एकद्रव्यत्वपरिणामेन तस्याः व्याप्तत्वदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता, नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतद्बाधकाभावे सतीति हेतु - विशेषणमसिद्धं गौरित्यादिशब्दस्य सर्वगतस्य युगपद्यंजकस्य देशभेदाद्भिन्नदेशतयोपलभ्यमानस्य खतो देशविच्छिन्नतयोपलंभासंभवादिति । तदयुक्तं । तस्य सर्वगतत्वासिद्धेः कूटस्थत्वेनाभिव्यंग्यत्वप्रतिषेधाच्च । सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्तत्वादाकाशवदित्येतदपि न शब्दसर्वगतत्वसाधनायालं, जीवद्रव्येणानैकांतिकत्वात् । तस्यापि पक्षीकरणान्न तेनानैकांत इति चेत् न, प्रत्यक्षादिविरोधात् । श्रोत्रं हि प्रत्यक्षं नियतदेशतया शब्दमुपलभते खसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति कालात्ययापदिष्टो हेतुस्तेजोनुष्णत्वे द्रव्यत्ववत् । खरूपासिद्धश्च सर्वथा नित्यद्रव्यत्वामूर्तत्वयोर्धर्मिण्य संभवात् । तथाहि । परिणामी शब्दो वस्तुत्वान्यथानुपपत्तेः, न वस्तुनः प्रतिक्षणविवर्तेनैकेन व्यभिचारस्तस्य वस्त्वेकदेशतया वस्तुत्वाव्यवस्थितेः । न च तस्या वस्तुत्वं वस्त्वेकदेशत्वाभावप्रसंगात् । वस्तुत्वस्यान्यथानुपपत्तिरसिद्धेति चेत्। न । एकांतनित्यत्वादौ पूर्वापरखभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयौ - गपद्याभ्यामर्थक्रियाविरोधाद्वस्तुत्वासंभवादिति नैकांतनित्यः शब्दो, नापि सर्वथा द्रव्यं पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः क्रमशस्तत्रोद्भवत्वात् छायातपादिवत् कथंचिद्द्रव्यं शब्दः क्रियावत्त्वाह्वाणादिषत् । धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनानैकांत इति चेत् । न । परिस्पंदरूपया क्रियया क्रियावत्त्वस्य हेतुत्ववचनात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशांतरप्राप्त्या तस्य तत्सिद्धेरन्यथा बाणादेरपि निःक्रियत्वप्रसंगान्मतांतरप्रवेशाच्च । ततो द्रव्यपर्यायात्मकत्वाच्छब्दस्यैकांतेन द्रव्यत्वासिद्धिः । अमूर्तत्वं वासिद्धं तस्य मूर्तिमद्रव्यपर्यायत्वात् । मूर्तिमद्रव्यपर्यायोसौ सामान्यविशेषवत्त्वे सति बायेंद्रियविषयत्वादातपादिवत् । न घटत्वादिसामान्येन व्यभिचारः, सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणं । खमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणानैकांत इति चेत् न, तस्यापि द्रव्यपर्यायात्मकत्वेनेष्ठेः । स्पर्शादिना गुणेन व्यभिचारचोदनमनेनापास्तं । ततो हेतोरसिद्धिरेवेति नातोभिलापस्य सर्वगतत्वसाधनं यतो युगपद्भिन्नदेशतयोपलभ्यमानता अस्याबाधिता न भवेत् । प्रत्यभिज्ञानस्य वा तदेकत्व परामर्शिनोनुमानबाधितत्वेन पुरुषव्यापारात्प्राक् सद्भावावेदकत्वाभावात्तदभिव्यंग्यत्वाभाव इति तज्जन्यमेव वचनं सिद्धं पर्यायार्थतः पौरुषेयं । वचन सामान्यस्य पौरुषेयत्वसिद्धौ विशिष्टं सूत्रवचनं सत्प्रणेतृकं प्रसिद्ध्यत्येवेति सूक्तं “सिद्धे मोक्षमार्गस्य नेतरि प्रबंधन वृत्तं सूत्रमादिमं शास्त्रस्येति” । तथाप्यनाप्तमूलमिदं बक्तसामान्ये सति प्रवृत्तत्वाद्दुष्टपुरुषवचनवदिति न मतव्यं, साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे चेति विशेषणात् । सूत्रं हि सत्यं सयुक्तिकं चोच्यते हेतुमत्तथ्यमिति सूत्रलक्षणवचनात् । तच्च कथमसर्वज्ञे दोषवति च वक्तरि प्रवर्तते सूत्राभासत्त्वप्रसंगाद्बहस्पत्यादिसूत्रवत्ततोर्थतः सर्वज्ञवीतरागप्रणेतृकमिदं सूत्रं सूत्रत्वान्यथानुपपत्तेः । गणाधिपप्रत्येकबुद्धश्रुत केवल्यभिन्नदशपूर्वधरसूत्रेण स्वयं संमतेन व्यभिचार इति चेत् न, तस्याप्यर्थतः सर्वज्ञवीतरागप्रणेतृकत्वसिद्धेरर्हद्भाषितार्थं गणधरदेवैर्ग्रथितमिति वचनात् । एतेन गृद्धपिच्छाचार्यपर्यंतमुनिसूत्रेण व्यभिचारिता निरस्ता । प्रकृतसूत्रे सूत्रत्वमसिद्धमिति चेत् न, सुनिश्चितासंभवद्बाधकत्वेन तथास्य सूत्रत्वप्रसिद्धेः सकलशास्त्रार्थाधिकरणाच्च । न हि मोक्षमार्गविशेषप्रतिपादकं सूत्रमस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् यद्धि यदविषयं न तत्तद्वचसो बाधकं यथा रूपाविषयं रसनज्ञानं रूपवचसः श्रेयोमार्गविशेषाविषयं चास्मदादिप्रत्यक्षमिति । एतेनानुमानं तद्बाधकमिति प्रत्युक्तं, तस्याननुमानविषयत्वात् । श्रेयोमार्गसामान्यं हि तद्विषयो न पुनस्तद्विशेषः प्रव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 522