Book Title: Syadyanta Ratnakar Author(s): Dakshvijay Publisher: Jain Granth Prakashak Sabha View full book textPage 5
________________ [श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणम् ] -- [शिखरिणीवृत्तम्] क्षमापालावल्यां प्रथमपदवी प्राप भुवि यो, युगादौ विज्ञप्तः कृतकलकलैरार्त्तयुगलैः । कलानामालीर्योऽगमयत समुल्लासपदवीं, सदा स स्यादायो वृषभजिनराड् मङ्गलकृते ॥२॥ [शार्दूलविक्रीडितवृत्तम् ] खाङ्गोत्थामिषतोऽपि पत्रिशकुनेः पारापतं यः पपौ, गर्भङ्गोऽप्यशिवोपशान्तिमखिलां चक्रे जनानां मुदे । त्यक्त्वा चञ्चलचारुचक्रिकमलां यो धर्मचक्री बभौ, सोऽयं शान्तिजिनेश्वरो वितरताच्छान्ति सदा शान्तरुक् ॥३॥ [स्रग्धरावृत्तम्] नौमि श्रीनेमिनाथं विबुधपतिनतं ज्ञातविश्वस्वरूपं, संत्यक्ताशेषदोषप्रियकलितशिवानन्ददानकदक्षम् । . आबाल्याद् ब्रह्मचर्य सुदधतममलं भोगराजी विहायाऽऽशातीतोच्चक्षमाभृच्छिरसि धृतपदाम्भोजधूलीपरागम् ॥४॥ [उपजातिवृत्तम्] मुदेऽस्तु वः पार्श्वजिनेशदेवो, फलं प्रशस्य वितनोति यश्च। संतापहो निर्मलजीवनश्च, गभीरनादोल्लसितः सविद्युत् ॥५॥ शार्दूलविक्रीडितवृत्तम्] सोऽयं वीरजिनेश्वरो विजयतां, योWश्शचीशैस्सदा, रागाधान्तरशत्रवोऽतुलबला येनाहता ज्ञानिना ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 228